________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनधराधराधिपतिधीरताजित्वरं
सुदर्शनसहोदरं विबुधशात्रवोत्सादने । सुदर्शनमिवाखिलप्रवरतत्त्वसंवीक्षणे
सुदर्शनरथिं दधद्हृदयरेव (१) य उद्योतते ॥ ९० ॥ यम्याहर्निशमेव सर्वचरणश्रीयोगमाकांक्षतः ।
संसारं विषवृक्षवत् कटुफलं दूरेण तित्यक्षतः । श्रीमन्मुक्तिनितंबिनीकुचतटकोडे रिसास्पृशः
पाणौ न्यस्यति साधुदेशविरतिनिस्तंद्रभद्रावली ॥ ९१ ॥ इतश्च । दोषायोगमनोरमकुमुदिनीक्षीरोदवेलासुहृत्
कीर्तिस्फूर्ति विसृत्वराप्रतिहतप्रोद्दामगोवैभवं । प्रेयः सौम्यमपास्ततापममृतेच्छूनां भृशं वल्लभं
चित्रं नित्यमुदित्वरं हततमो जागर्ति चांद्र कुलं ॥ ९२ ॥ सुरिम्तस्मिन् सुरपथ इव व्यातते वर्धमानः ।
प्रायोतिष्ट प्रहततमसा ज्योतिषा वर्धमानः । यस्त्रैलोक्ये शुभगुणगणैर्नापनै ( ? ) वर्धमानः ।
ख्यातिस्फाति प्रमुरिव जिनो देवता वर्धमानः ॥ ९३ ॥ मोहांधतमसव्यामत्सम ( ? ) व्यामर्शदर्शनान । तरक्षणात् सुदृशश्चके यभारत्या सांजनं ॥ ९४ ॥ शिष्यस्तस्य जिनेश्वरः प्रमुरभातू पट्टेपि सामान्यके
यो मन्ये निजसूरिवक्त्रशशभृत्ज्योत्स्नाभरस्फारिते । श्रीमदुर्लभराजराट्परिषदि व्यामज्ज्य वैयब्धिकान् (१)
वाक्याब्धौ कृतिनां शिवाय परमं प्राकाशयत् सत्पथं ॥१५॥ वाग्वैभवं सुकवितां स्वपरश्रुतार्थ
तत्त्वज्ञतां परमनिर्वृतिसत्वरत्वं । तर्काध्वप्राथमणितां प्रतिबोधशक्तिं
यम्यापरैरसदृशं निपुणा गणंति ॥ ९६ ॥
For Private And Personal Use Only