SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (2) अंतेवासिकदंबकैक तिलकस्तस्यावभासत् तत स्तीर्थ श्रीजिनचंद्रसूरिरसमप्रज्ञास्तवाचस्पतिः । श्रीकांतो नरकं निराकृततरां धर्मोद्धुरो गोभर न्यासैर्यः समितौ हठात् सुमनसां प्रत्यर्थिनः प्रामथीत् ॥९७॥ संवेगरंगशाला सुरभिः सुरविटपि कुसुममालेव । शुचिसरसामरसरिदिव यस्य कृतिर्जयति कीर्तिरिव ॥ ९८ ॥ गुरुभ्राता तस्य प्रमुरभयदेवो यतिपतिः पदंज्योतिर्धामधुमणिरिव नाकं न्यविशत | यदीयं गोचक्रं विरचितनवांगीविवरणं प्रसूते कामांश्च क्षपयति च कामं त्रिजगतः ॥ ९९ ॥ स्वे शिष्याः स्वगुरुं युगप्रवर इत्युद्भासयंत्युमुजा यं त्वन्येपि गुणावलीविलसितैरानंदिता निर्भरं । यस्य स्तंभनभूषणं जिनपतिर्नीलोत्पलश्यामलः सद्धामा कुमुदेदुकुंद विशदं विधे यशम्तायते ॥ १०० ॥ अपमलगुणग्रामोऽमुष्मादधितजिनागमः प्रवचनधुरा धौरेयोऽभूद् गुरुर्जिनवल्लभः सफलविलसद्विद्यावलीफलावलिविभ्रमं प्रकरणगणो यस्यास्येंदोः सुधा विभ्रतेतराम् ॥ १०१ ॥ सम्यक्त्वबोधचरणैस्त्रिजगज्जनौत्र चेतोहरैर्वरगुणैः परिरब्धगात्रं । यं वीक्ष्य निःस्पृहशिखामणिमार्यलोकः सस्मार सप्रमद्मार्थमहागिरीणां ॥ १०२ ॥ तस्मिन् महात्मनि समेयुपि नाकलोकं तीर्थं बभार भगवान् जिनदत्तसूरिः । नामापि यस्य बत पार्श्वविभोरिवाशु सर्व भयं हरति मंगलमातनोति ॥ १०३ ॥ For Private And Personal Use Only
SR No.008683
Book TitleVijapur Vrutant
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1916
Total Pages93
LanguageGujarati
ClassificationBook_Gujarati & History
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy