________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्मिन्........भाधिवासमधरा तुंगा निकेतावली
साढ्यो हंत जनश्च दानविधिनोपात्तस्वलक्ष्मीफलः । पात्रापात्रविवेचनात् तदा पात्रेषु वैशिष्ट्यवत्
पात्रायागमशास्त्रसंनिगदितैरिद्धा (?) निपुण्याग्रणीः ॥८॥ विप्रक्षत्रियवैश्यशूद्रनिवहः स्वे स्वे सदा कर्मणि
प्रोद्यच्छन्नपमत्सरः सरभसं निवर्ण्य कंचिन्नरं । यत्रापत्पतितं समुन्नतमनाः सर्वैः प्रकारैः क्षणात्
प्रोद्धत्यैव सुखीभवन् कृतमहासत्पौरुषेयायते ॥ ८४ ॥ यत्र जति सुमनःप्रकरप्रकार
सौरम्यभंगिभरवासितदिक्तटानि । त्रैलोक्यदृक्कुवलयावलिचंद्रवक्त्र
दिव्यांगनानि भवनानि विमानलीलां ॥ ८५ ॥ यस्मिन्नीश्वरमंदिरेष्वनुदिनं भूयो महीयो महः
प्रारंभाद्भुतविनमेषु विलसन्मंगल्यतूर्यस्वनैः आधत्ते सुरसमधूपसमयातोयानवद्यध्वनि--
नीतः स्फूर्तिभर प्रनर्तितशिखी विश्वस्य शब्दात्मतां ॥८६॥ विभाति यस्मिन् रुचिरा सुवस्त्रैः
प्रसाधिता रत्नसुवर्णभंग्या। श्रीखंडकर्पूरकुरंगनाभी
हया पणाली पणभामिनीव ॥ १७ ॥ यत्र श्राद्धगणः स्फुरद्विधिपथप्रस्थास्नुरस्थास्नुता
गाढालिंगितमर्थजातमखिलं नक्तंदिवं भावयन् निष्पारं भवसागरं तितरिषुम्तीर्थेशपोतं श्रितो
नित्यानंदमयीं विमुक्तिवनितामाप्तुं सदोद्यच्छते ॥ ८ ॥ तत्रांबडजेहडसोमदेव देवधरदेहडादीनां । श्राद्धानां समुदायो निवसति वसतिः शुभगुणानां ॥ ८९ ॥
For Private And Personal Use Only