________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेनैष शीतांशुरनुक्रमेण,
विश्रामहेतोः क्षयतां प्रयाति ॥ १५ ।। कौमारके न्यस्तसमस्तविद्यः,
सुयौवनं प्राप्य सुनीतिरीत्या । धृतः प्रजापालनकार्यमारः,
चकास्सि सर्वत्र जयानुमेयः ॥ १६ ॥ प्रतिपुरं त्वया वाचनालया,
- अपि निरूपिता ह्युग्रबुद्धयः । विविधदेशगं येषु भावुकं,
- श्रुतिपथं सदा कुर्वते स्थिताः ॥ १७ ॥ रचितवानहो ! ज्ञानवृद्धये,
प्रचुरसाधनाः शर्मसेवधीन् । परिषदो भवान् विश्वगोपका,
जनहितैकसाधनोद्यतः सदा ॥ १८ ॥ नवमवोत्थितां देशनोपमा,
___ वचनसन्ततिं भव्यजन्तवः । भवमहोदधौ सार्थक जना,
विदधते भक्त्प्रेमदृष्टितः ॥ १९ ॥ तव कलाशशी भूषयत्यहो !,
विषयशर्वरीं शर्मसेविनीम् । प्रतिदिनं विभोऽभ्युन्नतिक्रम
शरणतत्परां नित्यराजिनीम् ॥ २० ॥ कुसुमतोऽधिकानन्ददायिनी,
मुदितमानसास्तावकी धियम् ।
For Private And Personal Use Only