________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वधर्मनिष्ठा कदीयशासनाद,
विद्वेषभावं पस्तिस्त्यजन्ति ॥ ६ ॥ क्रियाकलापा निजधर्मकल्पाः,
समस्तभावेन सुसिद्धिभाजः । तन्मूलहेतुर्भवतः प्रतापः,
समस्ति कामाद्यरिधूमकेतुः ॥ १० ॥ देशान्तरे बंभ्रमणोत्सुकोऽन्यः,
कस्ते तुलां लब्धुमनल्पधैर्यः । योग्यो भवेद्धंसविविक्तबुद्धे
हीतदुग्धोज्ज्वलतत्वराशेः ॥ ११ ॥ फलानुमेयानि भवन्ति लोके,
कार्याणि ते धातुरिवोत्तमानि । विवेकविज्ञानविवर्धकानि,
प्रजाप्रमोदैकसमृद्धिभाजि ॥ १२ ॥ विद्यालया एव समस्तदेश
माश्रित्य ते शासनतो विभान्ति | स्थानं न किञ्चित् प्रतिभाति तादृग् ,
नो यत्र बालाः प्रपठन्ति विद्याम् ॥ १३ ॥ विद्योष्णरश्मिस्तव मानसस्थः,
प्रकाशयत्येव सदा धरित्रीम् । चित्रं तदस्त्येव नभःस्थितोऽयं,
न तत्तुलां प्राप सहनरश्मिः ॥ १४ ॥ कलानिधानः स्वयमेव भासि,
सर्वार्थसंसाधनमुरुषबीजम् ।
For Private And Personal Use Only