________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीयूषोज्ज्वलयद्यो विजयते क्षीणस्ततोऽनो नु किं ? ___जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥३॥ सज्यं येन कृतं कदापि न धनुः कोपाकुलं चाननं,
शौयौदार्यविशेषभूषितवपुर्यष्ट्या क्षमोदन्वता । यस्याज्ञां शिरसा वहन्ति तदपि प्रेम्णा प्रजापालका,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ४ ॥ कान्ता यस्य गुणाः सदा स्फुटतरा राजन्ति भूवर्तिनो,
भीमा भूरिभयप्रदाश्च नितरां विद्वेषिणां भूपतेः । गम्यस्तेन भवत्ययं जनवरैधृष्यो न चान्यैर्जनै
र्जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ५ ॥ यद्राष्ट्रे नितरां फलन्ति शुभदाः सामाधुपाया इव,
सम्यग्योग-सुसत्क्रिया-शुभपदे संप्रापिताः संपदः । संघर्ष समुपेत्य बृंहिततरो दर्का यका आर्थिका
___जीयाद गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ६ ॥ स्वायत्तीकृतशात्रवेण पदवीं श्रीमानवीं पित्सुना,
सम्यग् भागतया विविच्य विधिना रात्रिंदिवं पौरुषम् । नष्टालस्यविमोहमाररुचिना तंतन्यते न्यायतो,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ७ ॥ यद्राष्ट्रीयजनेषु चौर्यवचनं संश्रूयते शास्त्रगं,
दीप्रेणोत्तमशासनेन च सदा नीतिप्रवादः परः । वैरत्रासविवाददूषणगणो वैराग्यतां संगतो,
जीयाद् गुर्जरदेशपालक-सयाजीरावभूपः सदा ॥ ८ ॥ वर्णाः सदा ब्राह्मण शस्त्रपाणि
वैश्यास्तथा शूद्रमुखादयोऽन्ये ।
For Private And Personal Use Only