________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुणगणान्वितां जानते जनाः,
शिवफलप्रदामायतिक्षमाम् ॥ २१ ॥ कलिकला न ते राष्ट्रगामिनी,
श्रवणगोचरा भारतीतले । अभवदित्यलं सत्सु शोभना,
गुणविवर्त्तना शोभतेतराम् ॥ २२ ॥ को' भात्यंबरगो विभूषयति का भूमि सदा धर्मिषु,
को मुख्यः सरसि प्रभाति किमलं रक्षाकरः कः स्मृतः । यानं किं नृपतेर्विभाति शशिना का निःस्टहः को भुवि मत्पभोत्तरमध्यमाक्षरपर्देर्भूयात् तवाशीर्वचः ॥ २३ ॥
(उत्तर-हे सयाजीराव जय) श्रीमत्सयाजीरावस्य, गौजेरीयमहीपतेः । महत्ताकीर्तनं काव्यं, सद्गुणैः पूर्णशोभकम् ॥ २४ ॥ शुभं गुणानुरागेण, लाटापल्ल्यां विनिर्मितम् । गुणोन्नतेः प्रसिद्धयर्थ, बुद्धिसागरसूरिणा ॥ २५ ॥
१ प्रदेशः २ सुसती. ३ दयालुः ४ राजीवम् ५ सुराजा. ६ जवनः ७ रजनी, ८ संयतिः
For Private And Personal Use Only