________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यं लोकोत्तरया श्रिया चिततनुं संसारपाथोनिधे
रुन्मंथप्रथितं निरीक्ष्य जिन इत्यंहुयोर्निपेतुर्बुधाः ॥ १०५ ॥ यो लावण्यगभीरिमातिशयवान् वार्धि विजिग्येतरां वाचोयुक्तिविचक्षणत्वधिषणाप्राग्भारभाग् गीः पतिं । यस्मिन् पुण्यपरंपरा परिणतेरेकत्र पात्रे विभौ
संघः सर्वविद्युतः प्रमुदितो मुक्ति प्रति प्रास्थित ॥ १०६ ॥ ततो जिनपतिः प्रभुर्गुरुवतंसचूडामणि
जिनाधिपतिशासनं समुदनीनमत् सन्मनाः । समग्रगुणमालिकासमतियातस्तर्यावले
Acharya Shri Kailassagarsuri Gyanmandir
लोक्यततरामहो किमपि वैशिष्ट्यभृत् ॥ १०७ ॥
यस्मिन् परीषहचमूभरसंसहिष्णौ नानोपसर्गपटल विकटां विजिष्णौ ।
ऊर्जत्तपः श्रिय परोपकृतिप्रवीणे
श्रीवीरनाथ जनतां प्रथयंति धन्याः ॥ १०८ ॥
तस्याथ भूषति जिनेश्वरसूरिरिद्ध
मृद्धं गुणैः पदमिदं कुमुदावदातैः । यो वादिकुंजरघटामदशोषलीला
लब्धप्रसिद्धिरपि जातु मदं न धत्ते ॥ १०६ ॥ यस्मिन् व्याख्याति धर्मं जिन इव जनता निर्विदं नो जिहीते निर्वेदं वांछति द्राक् परिणतविरसा सारसं माररूंपा । आचार्यया गुणानामनुपममहिमा साधु षट्त्रिंशतो यो
बिभ्राणः प्राणभाजाममृतमय इवानंदयुं संतनोति ॥ ११० ॥ कदाचिदथ स क्षमां चरणलीलया लालयन्
दिशन् विधिपथक्रियां जिनमतोन्नतिप्राणितः ।
सुगोभिरिव बोधयन् सपदि भव्य कजा
करानुपैत्प्रशमयंस्तमो रविरिवेष वीजापुरं ॥ १११ ॥
For Private And Personal Use Only