________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३७) बृहन्नमस्कारफलं । श्रोतृलोकसुधाप्रपाम् ॥ चक्रे क्षपकशिक्षां च । यः संवेगविद्धये ॥ ७ ॥ अन्यो बभूवाभयदेवसरिः । प्रज्ञाप्रकर्षान्जितदेवसरिः ॥ योऽर्थस्फुटां भव्यजनोपकार,-सारां नवांगिविति चकार ॥ ८॥ य औपपातिकोपांग-पंचासकाष्टकोपरि ॥ टीकाश्चक्रे स्तंभनके । पार्श्वमस्थापयत्लभुम् ॥ ६ ॥ श्रीजिनवल्लभमूरि-स्तत्पट्टेऽभूद्विमुक्त बहु भूरिः ॥ भव्यजनप्रबोधकारी-कल्मषहारी सदोद्यतविहारी ॥ १०॥ तर्कज्योतिरलंकृतीनिजपरानेकागमाल्लक्षणम् । यो वेत्तिस्म सुनिश्चितं सुविहित-श्चारित्रचूडामणिः ॥ नाना वाग्गडमुख्यकान् जनपदान् श्रीचित्रकूटस्थिताम् ।। चामुंडामपि देवतां गुणनिधियों बोधयामासिवान् ॥११॥ ततोऽजनि श्रीजिनदत्तमूरि-र्येनेह कल्याणमदायि भूरि ॥ यः पारतंत्र्यं विषयं विधिं च । प्रकाशयामास विशेषतोऽपि ॥ १२ ॥ भव्यान् सार्ध कुटुंबैः शतश-उपकृतौ कर्मठो बोधयद्यो ॥ यस्याज्ञामंत्रदेवा अपि शिरसि दधुर्भक्तिभारेण नम्राः ॥ यन्नामामानधामाधरितमुरवर क्षोणिजन्माभिमानं । स्मां बद्धादराणां दलयति विपदोऽद्यापि दत्ते च भद्रम् ।। १३ ॥ ततोऽजनि श्री जिनचन्द्रमूरि, गुणौघसंतोषितसर्वसूरिः । अपर्वगर्वीकृतसंवरारिः । स्वच्छत्वतुच्छीकृतगांगवारिः ॥ १४ ॥ तत्तादृग् गुणगेहतां स्वगुरुभि । विज्ञाय सज्ज्ञानिभि, यस्मै मूरिपदं ददे नवसरद्देश्याय दृष्ट्वा तथा । रूपं दर्पकदर्पहारिहरिरित्युक्त्वापि मिथ्यादृशो ॥ नेमुाय नदीनलंघनघनप्रज्ञाय यस्मै मुदा ॥ १५॥ तत्पट्टे श्रीजिनपतिसरिजज्ञेऽथ पंचलिंगी यः । श्रीसंघपट्टकमलं विकृत्य चक्रे बुधाश्चर्यम् ।। १६ ॥ सिद्धान्तांबुधिकुंभसंभवसमः साहित्यलक्ष्मी प्रियः। पान्थो व्याकरणाटवीषु तिलको यस्तार्किकाणां व्रजे ।
For Private And Personal Use Only