________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२९ ढाळ-पंछीडा री चंदलिवा जिण जो सूं कहे मोरी वंदना रे जिणवर जंगम सोमंधर सामी रे चितथी यउ एक ॥
अथ श्रीसीमन्धरयुगन्धरस्तवः । भवपङ्कपतज्जन्तु-जातोद्धारधुरन्धरौ । स्तुवे जिनौ विदेहस्यौ, सीमन्धरयुगन्धरौ ॥१ स्वामिताङ्कितयूयं याः, प्रजास्ता भाग्य भाजनम् । भावेनोपासितयुवान्, स्तुवे सेवकपुङ्गवान ॥२ प्रथमं शिबिकारूढब्यूटयुवाभिभिस्तपस्यायाम् । इन्द्रेभ्योऽप्यखिलेभ्यः प्राधान्यं प्राप्यते स्म खलु ॥३
अब०-स्वामितयाड्कितौं-चिह्नितौ युलां यासां ताः, परत्वाद् युवादेशं बाधित्वा यूयमादेशः । उपासितौ युवां यैस्तान ‘शसो नः' १२।१।१७। 'युष्मदस्मदोः' १२।१।१०। इत्याः भहुव्रीहिबहुत्वेपि युष्मच्छब्दन्य द्वित्वेषि वृतेः 'मन्तस्यः ।२।१।१०। इति वुवादेशः । एवमतनेष्वपि प्रयोगेषु ॥२ प्रथ. शिबिकायाप्ययानं, तत्रारूढौ व्यूढौ युवां यैस्तैः । न च व्यूढेत्यत्र विपूर्लो वहतिर्विवाहार्थ एव, 'वूढो गणहरसहो' तथा 'मुणिवूढो सीलभरो' व्यूढशब्दस्य वहनार्थस्यापि प्रयोगाणां दर्शनात् । इन्द्रा अपि हि 'मनुष्योद्भवाः जिना' इति मनुष्याणामेव प्रथमं याप्ययानवहनानुमति ददति ॥३
याचकेभ्योऽपि भद्रं स्ताद्, वार्षिकत्यागपर्वणि । स्वहस्तदायकीभूत-युवभ्य' वाञ्छितावधि ॥४ अव०-याच०-'तभ्दद्रायुष्य' ।२।२।६६। इति चतुर्थी ।
For Private And Personal Use Only