________________
Shri Mahavir Jain Aradhana Kendra
२३.०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याचकानामाशीर्दानहेतुरूपं विशेषणमाह- स्वहस्तेन दायकीभूतौ युवां येषां तेभ्यः । वाञ्छितमवधिर्यस्मिन् स्वहस्तदाने तत् । गङ्गायां बहुमानातिशयातन्मृत्तिकापि यथा बहुमान्या तथा स्वहस्तदायकी भूतयूयं याचका अपीतिभावः ॥४
प्रदक्षिणीकृतयुवत्, केवलिभ्यो भवत्सभाम् ।
संश्रितेभ्यो विदुः स्पष्ट, के न वैनयिकक्रमम् ॥५
अव० - दक्षिणां प्रगतौ प्रदक्षिणौ, 'प्रात्यवपरि०' | ३|१|४७॥ इति समासः । अतौ तौ क्रियेथे स्मेति प्रदक्षिणी - कृतौ, प्रदक्षिणीकृतौ युवां यैस्तेभ्यः, 'गम्ययपः कर्म.' | २|२|७४ | इति पञ्चमी, भ्यसो 'ङसेवाद्' इति अद् । विनय एव वैनयिकं 'विनयादेरिकण' ||५
स्वविहारकसपावकयुवाकमुर्वी
महाविदेहानाम् ।
स्पृहयेद् बुधो न कस्कः सदावहन्मोक्षनगरपथाम् ||६
"
अ० - स्वविहारस्य क्रमेण परिपाटया, पावकौ - पावत्र्यकारको युवां येषां विदेहानां तेषां भरतैरावतेभ्यो महत्त्वात् महान्तश्च ते विदेहाश्व महाविदेहाः । एकपदव्यभिचारेऽपि विशेषणसमासो दृश्यते । यथा शेषाहिः, अब् द्रव्यं पृथिवी द्रव्यमित्यादि । बहुवचनं चात्र सोमंधराधर्ह च्य तुष्टयविहार कल्याणकादियोगहेतुकान् अम्यक्षेत्रातिशायिनः त्याद्वादनीत्या कथञ्चिदभिन्नान् महाविदेहानां बहून गुणान् सूचयति । सदा वहन् मोक्षनत्ररण्य पथो यय तां, वहति सार्थ इत्यादिष्विवअत्र वहिरकर्मकः सातत्यगमनाथेः, अविच्छन्न मुक्तिगच्छलैकजनाश्रितत्वेन उपचारात् मुक्तिमार्गोपि वहलुच्यते, मञ्चाः क्रोशन्तीत्यादिवत् ||६
For Private And Personal Use Only