________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूरप्रभः सूर्यसमप्रतापः, श्रीनागसूनुर्विमलाधिनाथः । भद्रो महाभद्रकरोऽर्यमांकः, श्रीधातकीखंडविदेहसावः ॥९॥ चंद्रलांछनधरो बरनंद-सेनयानत इनोऽस्ति विशालः । यस्य सा विजयवत्यभिधाना, यस्य सो विजयभूमिपतिश्च ॥१०॥ सरस्वतीपद्मरथस्य नंदनः, खङ्खाङ्कितो वज्रधरो जिनेश्वरः । विनायुतश्रीविजयवत्युदय॑ः, श्रीधातकीपच्चिमसद्धिदेहे ॥११॥ चंद्राननश्चंद्रसमानतोय, वल्मीकवंशे वरदीप्रदीपः । लीलावतीशो वृषभध्वजोऽस्ति, पद्मावतीसूनुवरो वरश्रीः ॥१२॥ पद्मांकभाक्रेणुकया प्रसूतः सुगंधया? जिनचंद्रबाहुः । देवाश्रितानंदनृपप्रमोदकृत, श्रीपुष्कराद्धे विजयासुदारः ॥१३॥ श्रीभुजंगभगवंतमाश्रये, श्रीमहाबलनृपस्य नंदनम् । पद्मलांछनधरं वरगंध-सेनया नतपदं महिमाभाजं ॥१४॥ ईश्वरं मदनमईनेश्वर, पालितं च सुयशोज्ज्वलांबया । चंद्रलांछनधरं गलसेन-नंदन मुदितचंद्रवतीश ॥१५॥
For Private And Personal Use Only