________________
Shri Mahavir Jain Aradhana Kendra
९२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परमगुरु श्रीआणदविमलसूरि संदर्भितम् ॥ श्री विहरमानजिनस्तोत्रम् ॥
श्रेयांस वप्ता जननी तु सत्यकी, वृषस्तु चिह्न दयिता तु रुक्मिणी । जंबूविदेहाभरणस्य यस्य, सीमंधरं तं सततं स्मरामि ॥१॥ - माता सुतारा सुदृढः पितास्य, प्रियंगुमाला ललनाधिनाथः । गजध्वजो धर्मधुराधुरंधरः, सार्वः श्रिये मे भवताद् युगंधरः ||२|| सुग्रीव सूनुर्विजयाजयप्रदः, सुमोहिनी मोहितमानसांबुजः । मृगांक तुल्यानन भृन्मृगांकभृत्, श्रीबाहुसाः शिवसंपदे वः ||३||
भूतदया श्रीनिसदस्य सार्द, मुदः प्रदः किंपुरुषाधिनाथः । सम्मर्कटांको विहरन् विदेहे, जीयात्सवाहुः कदली सुबाहुः ||४|| श्रीदेवसेनातनयो नयेन युक्तः सदानंदितदेवसेनः । दिनेश्वरांको जयसेनाऽच्र्यो, जिनोऽभिजातो जयतात् सुजातः ॥ ५ ॥
सुमंगला मंगलमालिकाप्रदः, स्वयंप्रभोश्चित्रविभोर्विभूतिदः । प्रिय सेनापतिः शशिलांछितकमो, महाविदेहे जयताज्जिनेश्वरः ॥ ६ ॥
ऋषभानननामक तीर्थनायकः, स्फुटं च कीर्त्याश्रितराज नंदनः । जनितो बरवीरसेनया, हरिचिह्नस्तु जयावतीश्वरः ॥७॥
यस्य माता मंगलावती सती, मेघराजतनयस्य वर्त्तते । अंगना विजयवत्यभीप्सिताऽनंतवीर्य जिनराट् द्विपध्वजः ॥८॥
For Private And Personal Use Only