________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रागादयो यद्-विजितास्त्वयैते
वैरेण तेनेव जिनेन्द्र ! मन्ये । करोषि चित्ते मम यत्र वास
दहन्त्यमी तत्-तदुपेक्षसे किम् ॥२१॥ विधूय सगादि भवान् विकारान्
दधासि रूपं निरुपाधिकं यत् । त्रिलोकपूज्ये भवतः प्रसादान्
ममापि तत्रानुभवोस्तु सम्यक् ॥२२॥ अशेषतः सर्वविदोऽपि भक्तान्
सीमन्धर ! प्रापयतः शिवं ते । किं विस्मृतोहं यदि दूरगत्वात्
__ तत्ते न युक्तं ह्यसि दूरदर्शी ॥२३॥ वृषांकितोसीति वृषां कितं मां
कुरुष्व सम्यक् कृपया प्रसद्य । भवामि युक्तं तव सेवको यद्
देयाः स्वस्त्राम्यं च ममाग्रतोपि ॥२४॥ श्री सीमन्धर-तीर्थनाथ ! मयका स्तुत्वैवमभ्यर्थ्यसे नाम्नाहं मुनिसुन्दरोभवमथो कुर्याः प्रसादं तथा ।
स्यां सर्वज्ञ यथार्थतोऽपि विशद-ज्ञानादि रत्नत्रयाल्लब्ध्वा कर्म-जयश्रियं शिवपुरे राज्य लभे चाचिरात् ॥२५॥
For Private And Personal Use Only