________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनाद्य-विद्योदर--पाश बद्धं
मां मोचय त्रातरिहापि सन्तम्,पयोज-गर्भ-प्रतिपन्न रोधं
भृग यथा दूरतरोऽपि भानुः ॥१६॥ जगन्ति पश्यन्नपि किं कषायैर्
मां पीडितं पश्यसि न स्वभक्तम् । दृष्टस्त्वया यन्न हि पीडयते तै
रूरीकृतो वज्रिजितेव सप्पैः ॥१७॥ यथेच्छ-दान-रनृणी-कृते त्वया
जगत्यशेषेऽपि ऋणार्दिताऽस्मि किम् । कम्मौत्तमणैर्भव-गुप्तितो न यन्,
मुच्ये जिनाद्यापि ऋणाद् भवस्थितेः ॥१८॥ सुयोग-विद्या-विधि-सम्प्रयोगत
स्नन्मामपि प्रापय तत्त्वशेवधीन । येनानृणीभूय निरस्य रोधका
ननन्नधामा विलसामि मुक्तिभाक् ॥१९॥ त्वां यत्र चित्ते विनिवेश्य मोदे
रागादयो देव ! दहन्त्यदोऽपि । ततो जगद्-रक्षण-दक्षिणोपि
कथं विभो ! रक्षसि नोश्चयं स्वम् ॥२०॥
अथवा
For Private And Personal Use Only