________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तवीमि सीमन्धर ! पक्षिणोऽपि
पश्यन्ति ये पक्षबलादिनं त्वाम्, अहं पापस्तव दर्शनार्थ
___ मनोरथैरेव सदा कदयें ॥१०॥ मनोरथा अप्यथ्वा भवन्तु
सदा भवद्-दर्शन गोचरा मे। ध्यातोऽपि-यत्-पूजितवद्-ददासि
त्वमीप्सितं सर्वमिति प्रमोदे ॥११॥ स्तवीमि कर्माणि मुनीन्द्र ! तानि
बभूव येभ्यो मनसः प्रसूतिः । ध्यानेन साक्षादिव येन कृत्वा
त्वां दैवतं स्यां भगवन् ! कृतार्थः ।।१२।। दूरेऽपि भक्त्या विमलेऽसि चित्ते
संक्रान्ति-भाग मे हर तत् तमोऽन्ततः । किं दर्पणान्तः प्रतिबिम्बतोऽपि,
रविः प्रकाश न तनोति गेहे ? ॥१३॥ त्वं सर्वे-सर्वेष्ट-हितोपकारी
दूरेऽपि मां बोधय विश्वबन्धो ! करोति किं नो गगने स्थितोऽपि
सुधामयूखः कुमुदे प्रबोधम् ॥१४॥ दुर्गाद्रिनयन्तरितोऽपि नेत
रुल्लासयरयेय गुणै-स्त्रिलोकीम । किं काच-कुम्भान्तरितोऽपि दीपः
प्रकाशयत्वेव करैर्न वेश्म ॥१५॥
For Private And Personal Use Only