________________
Achanh
sagan Gyaan
श्रीवरंगवती
कथा ॥२४॥
BASISEXREASEEBISEXIBEOg
सर्वस्मिन्स्वजने दक्षा वयस्या बोधिता मया । परीक्षा कर्तुमौचित्यविधानविदुषी वरा
॥६२७॥ "औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जिता"
॥६२८॥ सर्वेषामान्तरं भावं ज्ञातुं त्वमिङ्गितेन वै । वचनोगारतश्चैव निपुणाऽसि महामते! ।
॥६२९॥ तस्माचं शृणु मद्वाक्यं सावधानतया सखि ! । मज्जीवनं सुखीकर्तु नेतरा विद्यते जने
॥ ६३०॥ मुखोपभोगकाले हि, मित्राणि स्युरयत्नतः । विपद्गणे तु सम्प्राप्ते मित्रामित्रपरीक्षणम्
॥ ६३१ ।। निर्व्याजमित्रतायुक्तो ध्रुवमापन्निवारणे । कृतोद्यमो भवेत्प्राणार्पणेनापि न छबवान
॥६३२॥ स्वस्वकार्ये रता भूमौ लभ्यन्ते बहवो जनाः । स्वकार्यादधिकोयत्नः परकार्ये महीयसाम् स्वकर्मनिर्माणविधौ प्रयत्न, कुर्वन्ति ये सन्ति गृहे गृहे ते । परार्थनिर्माणपरायणा ये, सन्तः कियन्तो भवि तेजसन्ति ।।६३४।। वचने मानसे कार्य क्रियायामपि सन्ततम् । स्वभावो विद्यते तुल्य उत्तमानां तनुमताम्
॥ ६३५ ॥ अहितं मानसे नित्यं कुर्वाणेऽपि निरन्तरम् । हितमेव वितन्वति स्वदेहेनोत्तमा नराः अयं निजः परो वेत्ति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटंबकम्
।। ६३७॥ उपकतुं प्रियं वस्तुं, कर्तु स्नेहमकृत्रिमम् । सुजनानां स्वभावोऽयं, केनेन्दु शिशिरीकृतः यस्मिन्नगरे जातो मद्भर्तापूर्वजन्मनः । अन्यमानववत्सोऽपि भ्रमन्नत्राऽऽगमिष्यति
॥ ६३९॥ चित्राण्येतानि सम्प्रेक्ष्य पाश्चात्यभवमावयोः । स्मरिष्यति स सुद्धात्मा नूनमे तद्भविष्यति
॥ ६४०॥
॥२४॥
For Private And Personlige Only