SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भीतरंगवती कथा ॥ २३ ॥ www.kobatirth.org अनादरो विलम्बश्च वैमुख्यं विप्रियं वच । पश्चात्तापथ दातुः स्यादानदूषणपञ्चकम् अमुत्र सज्जनानाञ्च गृहे पुण्यवतां शुभे । जन्म संजायते नूनं शुद्धधर्म प्रभावतः यस्मादात्मोन्नतिर्भव्या साध्यते विमलात्मभिः । जन्ममानवमासाद्य सबै मुख्यं फलं स्मृतम् सतां दानादिसेवातो निर्वाणपदवी शुभा । सुलभा जायते नृणां साधवो हि सुखप्रदाः चौर्यकर्म विधायिभ्योस्तत्परेभ्यस्तथाऽनृते । परदाररतेभ्यश्च शत्रुभ्योऽपि महीपतेः दाने कृते ध्रुवं किञ्चित्फलं दुष्टं प्रजायते । अतो विवेकतो दानं दातव्यं शुभमिच्छता ब्राह्मणेभ्योऽन्यभिक्षुभ्योऽप्युदारमनसा भृशम्। दानं दत्तं फलत्येव निष्फलन्नैव जायते " पात्रे मुक्तिनिबन्धनं तदितरे प्रोद्ययाख्यायकं, मित्रे प्रीतिविवर्धनं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिमराव नरपतो सन्मानपूजाप्रदं भट्टादौ च यशस्करं वितरणं न काप्यहो निष्फलम् " याचका धर्मिणं नित्यं लाघन्ते तेन तद्यशः । कीर्तिश्व जायते लोकेऽनुकम्पादानमुत्तमम् तस्मिन्नपि फलं दाने सम्यक् संप्राप्यते जनैः । ज्ञात्वेति दानहीनैश्च न भाव्यं हि कदाचन गृहस्थानां हि भव्यानां सदा द्वाराणि भूतले । उद्घाटितानि सन्त्येव भिक्षुकाऽतिथिहेतवे यस्य कस्यापि दानेन सम्पत्तिः परिवर्द्धते । दानं निरर्थकं नैव जायते भावतः कृतम् सत्कुर्वन्त्यतिथीनत्र ये जना धर्मसाधनाः । तेषां सम्पत्तयः प्रीताः वर्द्धन्ते कुलकीर्तयः For Private And Personal Use Only " ॥ ५०० ॥ ॥ ६०१ ॥ ॥ ६०२ ॥ ।। ६०३ ॥ ॥ ६०४ ॥ ।। ६०५ ।। ॥ ६०६ ॥ ॥ ६०७ ॥ ।। ६०८ ॥ ॥ ६०९ ॥ ॥ ६१० ॥ ॥ ६११ ॥ ॥ ६१२ ॥ Acharya Shri Kasagarsun Gyanmandir ।। २३ ।
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy