________________
श्रीतरंगवती
कथा ॥.२२॥
CODESESEXEKSREXXXX
सद्वस्तुसङ्गाल्लभते सुर्म दुष्टप्रसङ्गात्समुपैति कष्टम् । ततः सदालम्बनमाविधेवं सतां जनानां शुभशर्महेतुः ॥ ५७४ ॥ सङ्घीय जनस्तस्मिन्पर्वणि मुदिताशयः । महोत्सवपराव्यं क्रूरकर्मपराङ्मुखैः
॥ ५७५ ॥ व्यापारो हिंसकानाश्च तस्मिन्नति निषिध्यते । दुःखितानाच विश्रान्तिर्जायते भारवाहिनाम्
॥ ५७६ ॥ धर्मिष्ठा मानवा दानतपःपुण्यजपादिकम् । विधाय सफलं जन्म पतन्ते कर्तुमादरात
॥ ५७७॥ मयाऽपि वासरे तस्मिन् पितृभ्यां सह शर्मदः । उपवासः कृतः सायं चातुर्मासिकमुत्तमम्
॥५७८॥ प्रतिक्रमणमाराध्य सर्वे जीवा क्षमापिताः । ज्ञाताज्ञातापराधानां क्षतये शुद्धचेतसा
॥ ५७९ ॥ प्रभाते चोपवासस्य पारणा विहिता मया । ततो हर्पतलारूढा पुरशोभा व्यलोकपम शिल्पिभिश्च कलादश्चित्रितैः स्तम्भसञ्चयैः । प्रासादोऽभ्रंलिहोऽराजन्मत्वातस्य मनोरमः प्रधानद्वारशिखरे वारिमिः पूरिता घटाः । सौवर्णाः स्थापिता दानघोपणामिव कुर्वते
॥ ५८२॥ तेनैवं ज्ञातवाँल्लोको हर्मेऽस्मिन् दानतत्परः । प्रत्यहं विपुलं विनं ददात्यर्थिजनाय वै
॥ ५८३॥ तत्रैव च दिनेऽस्माकं गृहे दानमनल्पकम् । जातं सुवर्णगोभूमिरूप्यशय्यासनादिकम्
॥५८४॥ यद्यस्यापेक्षितं वस्तु तत्तस्मै दीयते स्म वै । यस्मै कस्मै कदा कापि दानं दत्तं न निष्फलम्
॥ ५८५॥ नगरे यानि चैत्यानि जिनेन्द्राणां विभान्ति च । तानि संभूषितान्येव विशुद्धभावभक्तितः
॥ ५८६ ॥ व्रतिभ्यश्च यथायोग्य वस्त्ररात्रसुभोजनम् । शय्याऽऽसनादिकं वस्तु प्रदत्तं भावपूर्वकम्
॥५८७॥
॥२२॥
For Private And Personale Only