________________
ShriMahanandain AradhanaKendra
Acharya:shaKailassagarsunGyanmandir
3888888XXXESXXSEXEKXEXXX
संसारदुःखस्य विनाशहेतुः संपत्तिसन्तानविधानदक्षः । सद्धर्मलाभः श्रुतिगोचरो भवेद्भव्यात्मना सद्गुरुसमिधाने ॥ ५६५॥ पर्वोत्सवं नूतनमाप्रपद्य विधेयमावश्यकमेव सर्वैः । धर्मात्मभिर्धर्नामखण्डबुद्ध्या कल्याणसंपत्तिविधानदक्षम् । धर्मः स एषोऽत्र जिनोपदिष्टो दयाप्रधानोऽनुपकारवाञ्छया । सुपर्वकाले यदि सैव साध्यते ततो न कि तेन
महात्मना कृतम् ॥ ५६६॥ गृहेषु सर्वत्र समङ्गलानि गीतानि गायन्ति वराङ्गना मुदा । आनन्दसन्दोहकराणि भूरि हृद्येन रागेण रसपदानि ॥५६७।। देहिनां सर्वदा भव्य नव्यं प्रीतिप्रदं भवेत् । अहो स्वाभाव एषोऽत्र सर्वेषां हि नवं नवम्
॥ ५६८॥ आतोद्यवृन्दं विविधस्वरं शुभ-मानन्दयत्यङ्गिगणं पुरःस्थितम् । विशेषतः सुन्दरता विराजते नादे पशूनाश्च विहङ्गमानाम्
॥ ५६९॥ इदन्तनीयः खलुकौमुदीभरो महोत्सवो मोदविधायको जने । जातोऽस्ति नानासुखहेतुभूतः सर्वत्रकाले जनतोषदायी॥५७०।। अवैवाऽस्मत्सदनमनघं नूतनं जातमस्ति, निःशेषाणामतुलमचलं प्रेमचिते बभूव । पर्वोत्साहो मनसि वचने नव्यभावं तनोति, वस्त्रे भक्ते परहितविधौ कल्पनायाश्च शुद्धौ
॥५७१॥ भद्यैव मे मानसमद्वितीयप्रमोदभाग्जातमतीतकाले । वियोगखिनं स्मृतिगोचरस्य शान्तं गुरूणां वचनेन सद्य ।। ५७२ ॥ दुःखालिशान्ति प्रविधातुमिच्छन् शक्नोति नो यत्नविशेषतो ना । नवीनवस्तुग्रथितं मनो यदा तदैव शान्ति
समुपैति दुःखम् ॥ ५७३ ॥
For Private And Personlige Only