________________
Shri Mahavir Jain Aradhana Kendra
श्रीवरंगवती
कथा
॥ २१ ॥
BEESSO
www.batirth.org
प्राग्जन्मनि मया भत्र साकं योऽनुभवः कृतः । तं प्रकाशयितुं चित्राण्यङ्कितानि पटोपरि कथं भर्त्रा सहावात्सं कथं च व्यचरं वने । कथं शरेण विद्धः स कथं व्याधेन दुर्धिया विहिताग्रिसंस्कारो जाताऽहं च सती कुतः । समग्रमतिं दृश्यमद्भुतं तत्पटोपरि गङ्गा तदीयकल्लोला: कासारश्चाऽतिसुन्दरः । तत्र संचारिविहगाश्चक्रवाका विशेषतः कार्यज्ञया मया स्पष्टं चित्रिता सकला अपि । गजेन्द्रमनुधावँश्च व्याधश्चापधरस्तथा विकसत्पङ्कजं वारिसंभृतं च सरोवरम् । विविधर्त्तसमुत्पन्न कुसुमोल्लासितैर्वनम्
वृक्षोधैर्वासितं सम्यक् चित्रितं च मयाऽऽदशत् । विचित्रचित्रमालानां स्थापनैकत्र कल्पिता तत्सम्मुखमुपस्थाय मन्मनोमन्दिराधिपम् । चक्रवाकं चिरं ध्यायन्त्येकदृष्ट्या व्यलोकयम् कार्तिकी पूर्णिमा तावत् संप्राप्ताऽऽनन्ददायिनी । कौमुदीपर्व सा लोके मन्यते मोदवासरः || पर्वप्रशस्तिः ॥ शुभोत्सवेत्प्रतिमाऽवलोकने पूजाविधौ सेवनभक्तिभावे । सुपात्रदानेऽतिथिसत्कृतौ चाऽखिलं दिनं याति हि शुद्धकार्ये
मित्राणि स्वजनाच मोदकलिता नैकप्रकारोचितान् । यच्छन्त्येव महोपहारकगणान् प्रेम्णो मिथो हेतवे । आशीर्वादमहाध्वनिर्गुरुमुखात्संश्रूयते भावतः सर्वाऽऽन्दमयः सुखं स दिवसः क्षेमप्रदो जायते
For Private And Personal Use Only
।। ५५४ ॥ ।। ५५५ ॥
॥ ५५६ ॥
॥ ५५७ ॥
॥ ५५८ ॥
।। ५५९ ।।
॥ ५६० ॥
॥ ५६१ ॥
॥ ५६२ ॥
॥ ५६३ ॥
॥ ५६४ ॥
Acharya Shri Kasagarsun Gyanmandir
88888
॥ २१ ॥