SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भीतरंगवती (8) कथ! ॥ १३ ॥ www.kobarth.org सागर प्रियपत्नीव, रंहसा प्रतिधावति । साऽऽपगा स्वच्छपानीया, हंसश्रेणीनिषेविता कादम्बको रम्यः, कुण्डलानीव राजते । यस्याः सितच्छद श्रेणी, रसनेव विभासते चक्रवाकयुगं यस्याः, स्तनयुग्ममिवाऽस्ति सा । रङ्गतरङ्गमानाभि- ईसन्तीव विलोक्यते यस्यास्तटेगजा मत्ता - वृषभा उज्ज्वलाङ्ककाः । व्याघ्रा वेदामृगा भूरि-भयदा सन्ति चित्रकाः जल्लोपरि तरन्तश्च पक्चरक्तघटा इव । युगलानि रथाङ्गानां, रमन्ते परया मुदा अन्ये च पक्षिणोऽनेके, जलमध्य विहारिणः । भ्रमन्ति चिन्तया हीनाः, स्वतन्त्रा स्वेच्छयाऽनिशम् सख्यहं प्राग्भवे तत्र रक्तपीतच्छदान्विता । चक्रवाक्यभवं सौख्यं, स्वतन्त्रा मुक्तवत्यहम् चक्रवाकेषु यत्प्रेम प्रचलं स्थैर्यसंयुतम् । तादृशं नास्ति लोकेऽस्मिन्कुत्राऽपि स्नेहबन्धनम् मत्पतिस्तु चलच्छीर्षः कन्दुकाऽऽभशरीरकः । प्रसिद्धोऽभूत्समस्तेषु वयःसु जलचारिषु प्रवीणस्तरतां मध्ये, कोरण्टपुष्पसुन्दरः । नीलो रोमविहीनौ तत्क्रमी नीलाम्बुजोपम यावज्जीवं स्वभावोऽभूत् तस्य सिद्धतपस्विवत् । सरलः स्नेहसम्बद्धमानसस्य दयामयः क्रोधावेशस्तु निर्दग्धो प्रागेव तस्य मूलतः । प्रभावश्च तदीयो वै वर्ण्यते किमतः परम् प्रभाते लोहिते टेन समं वर्त्तुमना अहम् | उड्डीय स्नेहसम्बद्धा व्यहार्ष गगनाङ्गणे दाम्पत्यप्रेमतो नित्यं वियोगं सोढुमक्षमों । अवसाव सवाssवां मिथः सोख्याऽभिलाषिणौ For Private And Personal Use Only ॥ ३३४ ॥ ।। ३३५ ।। ।। ३३६ ।। ॥ ३३७ ॥ ॥ ३३८ ॥ ।। ३३९ ।। ॥ ३४० ॥ ॥ ३४१ ॥ ॥ ३४२ ॥ ॥ ३४३ ।। ३४४ ॥ ॥ ॥ ३४५ ॥ ॥ ३४६ ॥ ॥ ३४७ ॥ Acharya Shri Kasagarsun Gyanmandir ॥ १३ ॥ -
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy