________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
पूर्वजन्मवृत्तान्तम्
नयनाथप्रवाहेण, वेदनोत्पादकं महत् । बहिनि:सारितं गुप्तं, कि कुर्वे दुःखिता भृशम् मम भर्नुवियोगस्य, स्मरणं जातमस्ति मे । तदःखेनार्दिता चास्मि, हृदयोद्भेदकारिणा यादृक् स्नेहोऽनुभूतो मे, यद्दखं मुक्तात्यहम् । तत्सर्व ज्ञापयिष्यामि, सावधानमनाः शृणु सखी मे पार्श्वतोऽधोग, श्रोतु वृत्तान्तमद्भुतम् । तस्थावश्रुमुखी चाह, प्रारभे मत्कथानकम् 'भस्माकं देशतोऽद्रे, अङ्गदेशोऽस्ति वित्तवान् । शत्रुस्तेनभयं यस्मा-दरादेव पलायितम् दुष्कालजनिता पीडा, यस्मिन्न श्रयते जनैः । निरीतिभावमाश्रिस्य, राजते देशराडिव सम्पदः सर्वदा सर्वा-मिथो मित्रत्वमागताः । वसन्ति स्म मुदा यस्मिन्नकीभावगता इव विपदो न पदं यस्मिन, दधते कृशतां गताः । आरोग्य जनिताऽनन्द-मङ्गलानि पदे पदे तस्मिन् चम्पाऽभिधा रम्या, नगरी वर्तते शुभा । यस्यामनेक आरामाः पुष्पवल्लीविराजिता: सरांसि विस्तृतान्यासन्, संभृताम्बूनि भरिशः । निर्मलानि विराजन्ति येषु पङ्कजपङ्क्तयः महेभ्या यत्र राजन्ते, नाना वैभवशालिनः । जितस्वर्गिसुखा नित्यं, पूर्णीभूतमनोरथाः तद्देशमध्यतो गङ्गा, वहते जनपावनी । यस्यास्तद्वयेऽनेक-नगरपामकर्वटाः भ्राजन्ते भूतिसम्पमा-भूमिभूषणकारकाः । स्वर्गिसम्पत्तयो येषा-मग्रे विच्छापतां गताः पतत्त्रिणां च वृन्दानि, मोदमानानि नित्यशः । पवित्रां यां निषेवन्ते, कमलाकरमण्डिताम्
4॥ ३२०॥ ॥ ३२१ ॥ ॥ ३२२॥ ॥३२३ ॥ ॥ ३२४॥ । ३२५॥ ॥ ३२६॥ 41 ३२७॥ ।। ३२८ ॥ ॥ ३२९ ॥ ॥ ३३०॥
SEXXXXXXXXXXXXXXXXXXXXXX
।। ३३२॥
For Private And Personlige Only