________________
दासिभिः श्रेष्ठिनी साई, प्रणम्य विनयान्विता। एतस्याः सन्निधौ धर्म-कथा श्रोतुमुपाविशत् ततः साध्वी स्फुटैक्यैिः , श्रोतृचित्तहरस्वरः । धर्म प्रोवाच सार्वज्ञ, सवजीवहितावहम् ॥ ७४ ॥ जन्ममृत्युजराव्याधि-प्रमुखातिविनाशकम् । संसारसागरोद्दाम-तरण्डसनिमं श्रुतम् चिन्तामणीयते धर्मः, कल्पद्रुम इवाऽपरः। कामकुम्मायते धर्मः, सद्गतिक्षेमदायकः ।। ७६ ॥ धर्मे सिद्धेऽखिला सिद्धिः, प्राप्यते पुण्यशालिभिः। धर्मेणैव जनाः प्राप्ता-मोक्षसौधमलौकिकम् ॥ ७७ ॥ किंकर्तव्यविमूढबुद्धिकलितो वम्भ्रम्यते संसृतौ, कर्तुं धर्मविधि न दुःखदलनं भावं विधत्ते हृदि । संसारोदधिपारगामिपुरुषो नौकां विना स्यात्कथं । धर्माराधनसाधनेन सुलभ लोकद्वयस्थं सुखम ॥ ७८ ॥ सम्यग् ज्ञानं तथा शुद्धं दर्शनं जिनभाषितम् । अहिंसा सत्यमस्तेयं ब्रह्मचर्याऽपरिग्रहो। ॥ ७९ ॥ महावतानि पश्चेत्थं विनयः संयमस्तपः। क्षमादि धर्मतत्वानि, ज्ञापितानि तया स्फुटम् अथ श्रेष्ठिन्यवोचत्ता, विनयाऽजनताऽऽजना। धर्मतचं श्रुतं त्वत्तोऽधुनाऽन्यत्कथयस्व मे ॥ ८१ ॥ वन्मुखाम्बुजसौन्दर्य, निरीक्ष्य मद्विलोचने । प्रमोदमेदुरेऽभूता, दिव्यसंपद्विजित्वरम् पर त्वज्जन्मनो वार्ता, श्रोतुं गाढतरोत्सुकौ। जातौ कर्णावुभौ चित्रा, पूज्यपादे ! ऽधुना मम ॥ ८३ :। विष्णोः कमलवत्कस्य पितुस्त्वं वल्लभाऽमवत् । जगद्वन्द्या च ते माता, किनामाऽऽसीच्छुभाशये? ॥ ८४ ॥ पितुर्गृहे सुखं कीदृक्, कीटक्च श्वशुरालये । हेतुना केन दीक्षां त्वं, प्रपन्नाऽप्ति बदाऽधुना ॥ ८५ ॥
55653 588***
XXXXXXXXXXXXXXXXXXXXXXXX.
For Private And Personne
Only