________________
Acharya Shri Kasagarten Gyaan
भीतरंगवती
कथा ॥३॥
॥६०॥
॥ ६४ ॥
प्रत्यङ्गं वीक्ष्य तत्रैव, निनिमेषं विलोचनम् । पुनः पुनः परिभ्राम्य-बैव विश्राम्यति क्षणम् देवाङ्गनाः शुभं रूप-मस्याश्चित्तविनोदकम् । वाञ्छन्ति देवकन्येयं, किं वा नागकुमारिका ? संभाव्यते परं नैतत्सततं निर्निमेषिकाः । अयन्ते देववनिताः, सदापुष्पमालिकाः रजोऽपि न स्पृशत्यनं, तासामार्यास्वियं ध्रुवम् । धूलिपादाचलचक्षु-स्तस्मात्रैव सुराङ्गना मानुपी वर्तते काचित, पृष्टव्याऽतः शनैरसौ । गजे दृष्टे वृथा तस्य, पादपद्धतिशोधनम् सा श्रेष्ठिनी विचिन्त्यवं, भिक्षां दत्वा यथाविधि । पपृच्छ तां महाश्चर्यपूर्वकं-प्रीतिमत्तरा पूज्यायें ! न विवाधा चेत, क्षणं विश्राम्यतामिह । कथयस्व कृपां कृत्वा, किश्चिद्धर्मकथानकम् साध्वी ततोऽब्रवीत्सर्वहितकद्धर्मबोधने । नास्ति क्षतिर्हि केषाश्चित काऽपि कुत्रचिदुसमे ? अहिंसालक्षणो धर्मः, पुनाति श्रुतिमागतः। वक्तारमपि लोकेऽस्मिन, सर्वत्र सुखदायकः यदि कश्चित्क्षणमपि, निहिंस श्रृणुयाद् वृषम् । ततो दयामयं धर्म, सम्पक्पालयति स्वतः उपदेशस्तदैव स्या-दुपदेष्टुः फलेग्रहिः । यतोऽन्य तारयत्येष-स्वयमप्यक्षयो भवेत् धर्मोपदेशनं तस्मा-पछेष्ठं सद्भिर्मतं सदा। अतोऽहं वेनि यत्किश्चिद् , ब्रवीमि श्रुणु तच्छुमे ! निशम्प तद्वचो दास्यो-मुदितास्तालपूर्वकम् । वदन्त्यस्याः सुरम्यत्वं, दृग्गोचरीभविष्यति साऽथ साध्वी तया दत्ते, श्रेष्टिन्या साध्वीसंयुता। विष्टरेऽतिष्ठदेकान्ते, सम्यधर्मपरायणा
॥ ६८ ॥
॥ ७० ॥ ॥ ७१ ॥
For Private And Personale Only