________________
Shri Mahavir Jain Aradhana Kendra
श्रीवरंगवती कथा ॥ १० ॥
www.kobatirth.org
जाsपि तथा विलम्बे तन्मुद्रणेऽकारि महान्प्रयासः । इमां पुनः संस्कृतवाचकानामग्रे निवायाऽस्मि कृतार्थ एव ॥ ६८ ॥ अनूदितागुर्जरभाषया या प्राकृते वास्ति तरंगलोला । द्वाभ्यां च संशोधनकार्यकाले कृतोपयोगोऽस्मि हि तत्र तत्र ॥ ६९ ॥ तस्माद्धि तत्कर्तुप्रकाशकानां विभर्मि शीर्षेण बहूपकारम् । गुणैकपक्षाः सदसद्विवेके तान्सरद्बुधान्संप्रति सूचयामि ॥ ७० ॥ आचार्यतामधिगतं किल शब्दशास्त्रे, श्री भाइशङ्करवुष मणिशंकरं च । एतावुभौ शुचिसहायकराविदान सद्बुद्धिगेन मनसा परिचिन्तयामि ॥ ७१ ॥ जैने किम्वा जैनशास्त्राऽतिरिक्ते, न्याये काव्ये व्याकृतौ यः प्रवीणः । तचवृत्ते सिद्धहस्तं प्रशस्तं वर्षानन्दं शत्रिणं तं स्मरामि ॥ ७२ ॥ बीतावधानादि मनुष्पदोषैर्याः कामनात्र त्रुटयो मवेयुः । गुणैकगृह्याविविबुधा विशोध्य | सम्यक् पठन्तः किल सूचयन्तु ॥ ७३ ॥ आवृत्तिकाले च यतो द्वितीये शक्यं हि तत्तत्परिवर्तनं स्यात् एतावदुक्त्वा विरमे परार्थे बुधाः सदा कारुणिका भवन्ति ॥ ७४ ॥ ऋतवन्तरिचरवकरैर्मित वैक्रमेन्दे + श्री कार्त्तिकेसि तदलैखलु पौर्णमास्याम् । हेमेन्द्र सागरसुवाचकपुंगवेन, प्रस्तावनेति विहिता सुधियः क्षमन्वाम् ॥ ७५ ॥ बुद्धिमन्तः पठिष्यन्ति संशोध्येति सुतोषतः । स्खलनायै सतो विज्ञान प्रार्थये च क्षमामपि ॥ ७६ ॥
+ " सप्तान्तरिक्षखकरे मितबैक्रमाब्दे (२००७) श्री कातिके सितदलेखलु पौर्णमास्याम् ॥ ७५ ॥ "
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmand