________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
॥ तरङ्गवतीकथाया महात्म्यम् ।।
FREMIXEXXXXXXXXXXXXXXXXXXX
इयं तरजावत्याख्या ज्ञेया मिश्राऽभिधा कथा । यस्यां व्यावर्णितः सम्यग्धमों मुख्यतयैव हि ॥१॥ यता-धर्मार्थकामा वर्ण्यन्ते यत्र मिश्रकथाऽस्ति सा । धर्मपूर्णा पुनः सैव भृशं लोकोपकरिणी ॥२॥ धर्माचार्या महात्मानो धर्म प्रापयितुं नरान् ।
धर्मप्रधानां संकीर्णा कथां कुर्वन्ति शर्मदाम् ॥३॥ कथा तरङ्गवत्या ये शृणुयुभक्तिभावतः । तेषां भव्यात्मनामात्मा नायेत | निर्मजः खलु ॥ ४ ॥ श्रोतृणां श्रोत्रचितानि सदैवाऽऽनन्दयेदियम् शुद्धमावेन तां चित्ते सरन मोक्षपदं व्रजेत् ॥ ५॥ संसार भ्रमणश्चास्याः सरणेनैव नश्यति । सज्जनानाच मूर्धन्यो जायते भुवने जनः ॥ ६ ॥ श्रद्धायाः सुविशुद्धायाः स्थिरत्वमुपजायते । जिनेन्द्रगदिते मार्गे मोहवृत्तिविनाशके ॥ ७॥ यायिनां मविता शुद्धा कथा साहाय्यकारिणी। पन्था मुख्यतमो लोके ज्ञेयः श्रेष्ठसुखाऽऽप्तये ॥ ८ ॥ युग्मम् । ज्ञानभानुप्रभापुजैर्जनतायास्तमस्ततिम् । दूरीकुर्वन्ती भद्रेयं दीपिकेति विराजते ॥९॥ तर्पयन्ती सतः सेयं जिनक्तिप्रवादिनी । मन्दाकिनीव मालिन्यं संसृतेर्नाशयत्यत्नम् ॥ १०॥ सत्कथा भावतः श्रुत्वा भावयेच्चेभिजे हदि । भूस्वाऽनन्दमयः सैप जन्मसार्थक्यमाप्नुयात् ॥ ११ ॥ शुद्धधर्मप्रदात् काव्यात चित्तहारिकथानकात् । सर्वेषां मानसं तुष्टं जायते चिन्तनक्रमात् ।। १२ । काम क्रोधं विषादं च मोहं मानं प्रमत्तताम् । मयं शोकं निराकृत्य दद्यादिमियं शुभाम् ॥ १३ ।। आत्मोमतिकरी नूनं स्मृतेयं भव्यमानः । यामनुसृत्य लोके हि सिद्धिः सम्पद्यतेऽखिला ॥ १४ ॥ वैराग्यं
For Private And Personlige Only