________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दुःखवर्णनं तज्ज्ञानतः चेतसि हर्षशोको । हास्यं च शृङ्गार मयानको च स्वरूपतः सन्ति हि तत्र तत्र ॥ ५५ ॥ रसौ तु शान्तः करुणस्तथाsत्र प्रधानरूपेण निवेशितौ स्तः । दानं च शीलं च तपथ भावो जिनेशपूजा कथिताः कचिच ॥ ५६ ॥ सम्यक्त्व सामायिकधर्ममूल चारित्रयचच्छकुनादिकं च । तथा ज्वरस्वप्नपुनर्मविनां मेदा विचारा उपदर्शिताथ ॥ ५७ ॥ अद्यापि चैतद्रसकृतकथाया अभावतः संस्कृतवाङ्मयेषु । ग्लानात्मनां भव्यदृशां जनानां श्रीसूरिणाऽकारि महोपकारम् ॥ ५८ ॥ प्राकृप्राकृते संग्रथिता कथेयं पश्चाद्बुद्धैर्जर्मणदेशजाते - रनूदिता जर्मणमाषया च तथैव सा गुर्जरमाषयाऽपि ॥ ५९ ॥ अशिक्षिताः सम्प्रति शिक्षिता वां कथामिमां वीक्ष्य समे मनुष्याः । प्रपठ्य संश्रुत्य सुदृष्टचित्ता भृशं भविष्यन्ति च धर्मलग्नाः ॥ ६० ॥ पुरःपुरे ज्ञानतरङ्गिणीयं प्रवाहयन्ती निजबोधधाराम् । संप्लावयन्ती सममव्यजीवानुद्धारिका स्थाप्यति स प्रमोदः ॥ ६१ ॥ ग्रहांकखेटेन्दुमिये च वर्षे श्रीवैक्रमे (१९९९) प्रान्तिजपत्तने च | संघाग्रहाद्भव्यदृशां पुरस्तादियं कथारम्मि च वाचनाय ॥ ६२ ॥ चित्राऽवलोकेन च पद्मदेवप्राप्तिः पुनस्तेन समं च संगः। तरंगवत्या इति वाचितायामस्यां समाऽभूत्परमप्रसन्ना ॥ ६३ ॥ मावोरसो धर्ममयोऽत्र तस्मान्मुद्राप्य चास्याः क्रियतां प्रकाशः । साध्वीजनानां भविनां तथैवं तत्राऽभवन्मे परमानुरोधः ॥ ६४ ॥ अस्त्यत्र पूर्वाऽपरपद्ययोस्तु, सम्बन्ध इष्टः सुधिया विभाव्यः । कार्या न युग्मादिककल्पना वा, स्वतंत्र काव्यं विदितं न यस्मात् ॥ ६५ ॥ भावाऽमिलक्ष्येण च वाचका स्ते कथामिमां बोधधिया पठन्तु, अलंकृतिव्याकृति द्वदृष्ट्या, विशुद्धता प्रायइहाऽऽदृताऽस्ति ॥ ६६ ॥ यदा मया दायितुमुद्रणालये संग्रामकालो विषमो झुपस्थितः । भूरिप्रयासेऽपि तदातिदुर्लभं महार्घतायाः किल कागजादिकम् || ६७ || संशोध्य
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir