________________
Acharya Shri Kalumagmoun Granmands
बीवरंगवती
कथा ॥ ९ ॥
XXXXXXXXXXXXXXXXXX
शिष्यः समग्रनिगमाऽऽगमपारचा ॥४१॥ नानाप्रपन्धरचकः कविचक्ररलं वक्ता प्रसिद्धउदयन्सुमहाप्रभावः । श्रीमान्महानजितसागरमरिवर्यः जान्य तां सुरगिरा नवपद्यरूपाम् ॥४२॥ मनो जनानां रमणीयताया उपासकं सा रमणीयता च । प्रतिक्षणं नूतनतां दधाति प्रमोदते तेन सतां , चेतः ॥ ४३ ॥ अस्याः कथायाः खलु वाचनेन क्षणे क्षणे नूतनभावलाभः । वाल्यं तथा शिक्षणलेखने च विनीतिधर्माचरणे विवेकः ॥ ४४ ॥ विवाहशिष्टाचरणेऽनुरागो व्यापारदेशाटनलोकबोधः । कलाग्रविद्यासदसद्विवोधो भवस्य किम्बा परिवर्तनं च ॥४५॥ स्वमुक्युपायस्य गवेषणं चेत्यादि प्रकाराऽवगतिश्च सम्यक् । उद्भावयत्येव नवीनभावानेपा कथालोलतरंगतुल्यान् ॥ ४६ ॥ परस्परातिस्थिररागरक्तावुभौ विशुद्धव्यहारभावो । तरंगवत्येव च पद्मदेवोऽस्याः सत्कथाया वरनायको स्तः ॥४७॥ दीक्षानिमित्तोत्थभवान्तरीयस्वजातिदाम्पत्यवियोगदीनम् । पुनर्भवेऽन्योऽन्यसमागमेन चेतश्चमत्कारकचित्र. भूतम् ॥ ४८॥ सुश्राविकाया अतिमक्तिमत्या अत्याग्रहाम्यर्थनयाऽनुनीता । कथंचिदाश्वस्य व्रतस्थितात्र तरंगवत्यारमते स्ववृत्तम् ॥ ४९ ॥ आरम्य कौमारत एव सर्व श्रीपद्यदेवेन समं स्वपत्या । धर्मोपदेष्टुः श्रमणस्य पार्वे दीक्षान्तमेतच्चरितं प्रशस्तम् ॥५०॥ एतद्विधं वर्णितमस्ति येन प्रकाशते दुःखतया भवोऽयम् । श्रुत्वा च भव्या अचिरेण मोहात्संसारमूलाद्विरता भवेयुः ॥५१॥ तथैव दीक्षागुरुराजवृत्तं प्रवर्णितं यदि वाचकानाम् । परंपर विस्मयमादधाति प्रान्तेदिशत्येव महाविरक्तिम् ॥ ५२ ॥ कचित्कचिद्धर्षकरा प्रसंगाः संदर्मिता रोचकतत्प्रकारैः । रसातुराणां रसराजदानैः प्रीतिप्रदा दैन्यहराश्च सन्ति ॥ ५३ ।। तथाकचिद्वर्णितमस्ति वस्तुस्वारस्यतो यत्पठनैककाले । सर्व तदानीं तनवस्तुपूर्व प्रत्यक्षतुल्यं हृदि भासते च ।।५४॥ क्वचितकृतं यत्सुख
REKEEEEEEEEE.SEKXXIM
For Private And Personale Only