________________
Shri Mahavir Jain Aradhana Kendra
श्रीवरंगवती
कथा
॥ ८९ ॥
www.bobatirth.org.
आदौ प्रदक्षिणाsकारि मन्दिरस्य मया ततः । स्थितः पवित्रवृक्षस्य तस्याऽधस्तादहं मुदा मृदुपर्णाश्च तच्छाखाः परितो विस्तृता भृशम् । चुर्ति प्रसारयन्ति स्म दिगन्तेषु सदा पराम् तत्र स्थितं जनं कश्चिदपृच्छं नम्रया गिरा । अस्याऽऽरामस्य कि नाम कस्यात्र प्रतिमा वरा बहुस्थानानि दृष्टानि मया कापि कदापि नो । उद्यानमीदृशं दृष्टं मव्यसम्पद् विराजितम् विदेशिनं स विज्ञाय सद्यः प्रोवाच मां प्रति । शकटमुखनामाऽयमारामो लोकविश्रुतः
१ सकलपुर प्रधाना पूर्विनीताभिधाना, तदनु पुरि तमानं वै पुरं श्रीविशाकम् ।
शकट मुखसुनाम्नोद्यानमीशानकोणे, विहृतिवसत एतः श्रीप्रभुर्नाभिजन्मा ॥ १ ॥ वटनरुतलदेशं प्राप्य वासं प्रचक्रे, कठिनमतितपोऽसावष्टमं नाम तेपे । तिथिरसितदलीया फाल्गुनैकादशीया, भमपि किल तदासीदुत्तराषाढनाम ॥ २ ॥ प्रथम दिवस भागे चोज्ज्वलध्यानभाजः, त्रिभुवनमुपकर्तुः स्वामिनो नाभिसूनोः । प्रगटतमथ लोकालोकसत्यप्रकाश, निरवधिदृढदिव्यं केवलज्ञानमासीत् ॥ १ ॥ शुभकरसमयेऽस्मिन्निन्द्रसिंहासनं तत्, प्रचलितमिति जैनज्ञानमाहात्म्यतोऽभूत् । अवधिवत इन्द्रो ज्ञाततत्सर्ववृत्त:, हृदि बहु मुमुदे तत्सर्वहर्षे कहेतुः ॥ ४ ॥
For Private And Personal Use Only
।। २२२९ ॥
।। २२३० ॥
२२३१ ।।
॥
२२३२ ॥
॥ २२३३ ॥
Acharya Shri Kassagarsuri Gyanmandir
॥। ८९ ।।