________________
धीतरंगवती
॥८२॥
स्पं घातिकर्मनिकरं च समाप्य नाथः संपाप्य केवलमनेकसुमव्यजीवान् । संतारयन् शुभददेशनयाऽथ संघमस्थापयत् करुणया शुभधर्मधामः "
॥ २०७०॥ नृपाऽश्वसेनो जनको यदीयो वामाभिधाना जननी यदीया । नीलाभकायो नवहस्तमानः स पार्श्वनाथोऽभवदत्र पुर्याम
॥ २०७१ ॥ कोमारे कमठाख्ययोगिविहिते जाज्वल्यमानेऽनले प्रायोऽर्धावधिदग्धकाष्ठतलतो नागं स चक्रे बहिः । जीवन्तं भुजग नमस्कृतिमहामन्त्रं समश्रावयत्, मृत्वाऽसौ धरणेन्द्रनामकसुरो जातः प्रमावान्वितः ॥२०७२ ॥
राजीमतीनेमिजिनेन्द्रचित्रं विलोक्य वैराग्यमथाऽऽशु लेभे । लोकान्तिकानां विनयाञ्च तीर्थ प्रवर्तयामास विधाय दानम्
॥ २०७३ ॥ विनाश्य दानेन जगद्दरिद्रतां त्यक्तस्वतनद्ववैभवक्रमः । गृहीतदीक्षः कमठोपसर्गज संपद्य लेमे वरकेवलं विचमा २०७४ ॥
रचयति धरणेन्द्रे पादयोदिव्यपूजा, विदधति कमठे तं घोरघोरोपसर्गम् । उभयसुरसमानस्त्यक्तमानापमानः, प्रभुरतिकरुणाः पार्श्वनाथो बभूव।
॥२०७५॥ न कदापि क्वचिद्देशे श्रूयते न तथाऽामे । श्रीपार्धात्साधुतः साधुः कर्मणात खलतः खका ॥२०७६॥ कदापि गङ्गास्वतटाप्तकायोत्सर्ग विभु क्षालपति स पादे। तभृष्टचित्तास्तु तवान् सुरेन्द्रो जाता का सर्वनदीपु पुण्या ॥२०७७॥
॥८२॥
For Private And Persone