________________
www.kobahrth.org
श्रीवरंगवती
कया
"अयि नाथ ! ममास्ति जीवनं, परमं नीचमहो ! यदेकतः । परतः खगयुग्महिंसनं यदभूचानवधानतो इहा ! ॥ २०४८॥
नहि किञ्चिदपीह कारणं यदहं दीनमहो ! स्वभावतः । रमते प्रकृतिस्थितं सदा, भवितव्यं स्वयमेव जायते ॥ २०४९ ॥ न कृतं सुकृतं किमप्यहो ! परपीडैव सदा कृता मया। विफला मम सा मनुष्यता घिगिदं मे किल पापजीवनम् ।। २०५० ।। यदिदं विहितं स्वजीवनं कुकृताराधनतः सदासुखम् । हतकोदरहेतवे हि तत् क सुखं मे परतो भविष्यति ॥२०५१ ॥ सुकृताश्रयिणा समन्ततः सुखमस्त्येव सुपूर्णमहिकम् । पुनरस्ति च पारलौकिकं सुकृती कापि न चावसीदति ॥ २०५२ । पशुतुल्यकुकृत्यसेविनां प्रसृतं दुःखमहो पदे पदे । जननीपिटकामिनीभिरावसतो मे कुकृतेर्न चोद्धतिः ॥२०५३ ।। वनवास इहाऽतिदुःखदस्तदल सम्पति जीवनेन मे । पितृशिक्षितरीतिरात्मना कृतकारेण न पालिता हहा ? ॥२०५४ ॥ अनुजीविनमत्र पालितुं स्वहितांस्त नियमान सहं कुरु । सुधियं वितर प्रमो! पुनः सुखिनं मां कुरु दीनवत्सल ! ॥ २०५५ ।। सुखिनोऽथ जनाश्च दुःखिनम्तव सर्वेऽपि वशा हि हे प्रभो ।। वितराऽतिसुखं च दुखितः सहसा मां परितोऽय पालय॥२०५६ नरतामथ देहि नाथ ! हे! विपिने चाव कदापि साधवः । सहसा मिलिता न मानिता शुकनानामतिदोषदर्शनात् ॥ २०५७ ॥ इति दुष्कृतमेव मे परं न च तत्पादरजो मया धृतम् । न च तत्कथिता सुधामयी हितदा हा ननु देशना श्रुता ॥ २०५८ ॥ नच ते शुभनाम कीर्त्तितं न दया प्राणिषु हा मया कुता । तदिदं नरजीवनं मया फलितं नैव मुचैव जीवितम्।। २०५९ ॥ न मयाऽऽचरणं निरीक्ष्यतामधर्म माँ जगदीश ! पालय । इति चारु विलप्प संस्तेविरतोऽसो मरणार्थमुद्यतः ॥ २०६०॥
॥८१॥
For Private And Personal use only