________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
माधुर्ययुक्तः सरलस्वभावो दोषैः कषायैः परिवर्जितो यः । न्यायी गुणग्राहक वस्तु मृत्वा पुनर्मर्त्यभवं समेति ॥ १९३८ ॥ यः संयमी दानपरस्तपस्वी सदोपकारप्रवणो दयालुः । गुरोर्निदेशारुचिर्मनुष्यो मृत्वा शुभं स्वर्गमवं करोति ।। १९३९ ॥ मित्राणि यो वचयति प्रमत्तः पशुसमात्रः पिशुनो मनुष्यः । ध्यानेन चाऽऽतेन विहाय देहं तिर्यगू मत्रं याति विवेकशून्यः १९४०
हिसावभावोऽनृतमयवचनः स्वेतरस्त्रीषु गन्ता, पापी द्रोही कृतघ्नी विषयपरित्रतो निर्दयः क्रूरचेतः । रौद्रध्यानी पायैः कलुषितहृदयो यस्य मूर्च्छा न शान्ता, मृत्वाऽसौ मर्त्यवर्गः प्रविशति नरकं घोरदुःखैः प्रपूर्णम् १९४१
शुभं नास्ति तु रौद्रमार्त्त धर्माऽभिषं शुक्लमतीव शस्तम् । ग्राह्यं शुभं तद्रहितं तु यं शुभं हि दत्ते परिणामसौरूपम् १९४२ देवमानमवः सुखरूपः कार्यसाधनपरोऽति मनोज्ञः । नारकोऽथ भव एष तिरथां दुःखपूर्ण इति सज्जननिन्द्यः ॥ १९४३ ॥ प्राक् शुद्धसंस्कारवशेन कश्चित् तिर्यग्गतः श्रावकमुद्वतानि । एकादशापि प्रतिपालयेच्च जातिस्मृतिस्थो मुनिदर्शनेन ॥। १९४४ ॥ रागद्वेषौ न बोरुन्गालोभोपहतमानसः । स नरः संसृतौ भ्राम्यन्कर्मबन्धनभाग् भवेत् ।। १९४५ ।। प्राणिहिंसा च मिथ्योक्तिरदत्तादानमैथुने । महापापानि घोराणि पश्चमश्च परिग्रहः तथैव क्रोधमानौ च लोभमाये तथैव च । भयं मनोविकल्याचाऽप्रामाण्यं वक्रतादयः यते दुर्गुणाः सर्वे मिलन्त्यज्ञानयोगतः । तदानीं कर्मबन्धस्य मूलं दृढतरं भवेत् तीर्थकरैरिति प्रोक्तं प्रत्यक्षीकृतविष्टपैः । सारभूतमिदं ज्ञेयं मवारण्यभयापहम्
॥। १९४६ ।।
॥। १९४७ ॥ ॥। १९४८ ॥ ॥। १९४९ ॥
For Private And Personal Use Only
Acharya Shri Kaassagarsun Gyanmandr