SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan SEXEEEEEEEEEEEEEXXSEX दूरोऽपिदेशः समयश्च शुद्ध-प्रेम्णां न किंचित्कुरुतेऽन्तरायम् । कंजाय सूर्यः स्ववियुक्तमत्रे सतां यथा प्रेमदृढं करोति सारसिका निरुद्धा ये पूर्व नेत्राश्रुबिन्दवः । तेऽपीदानी व्यमुच्यन्त स्मृत्वा दुःखं वियोगजम् ॥१६६६ ।। मङ्गलक्षतिभयेन नेत्रयोरश्रुरोधनपरा नरा बराः । किन्तु तद्विरहरोगबाधिता नो विदन्ति च कृताऽकृतोऽचिर्तीम् ॥ तत्तु तस्याः क्षणादुःखं न क्षमं शमितुं खलु । विभाति स्म हिमक्लिन्नपारेखेव सा तदा ॥१५६७॥ महेभ्यानां समादेशात प्राभृतसमयोचितः। समानीतो घटवैका सर्वमङ्गलसाधकः ॥१६६८॥ अस्मासु विष्टरस्थेषु तावत्कालं कथानकम् । अस्माकं प्रष्टुमारेमे, सर्वसम्बन्धिनां गणः ॥१६६९॥ ततो मत्स्वामिना सर्वः कृतो योऽनुभवः पुरा । दुःखमूलः क्रमेणैषां सायन्तः स निवेदितः ॥१६७०॥ दुःखप्रहाणाय परस्परस्य, सदा प्रयासं कुरुते मनुष्यः । दुर्दैवतो दुःखमुपैति पश्चा-यतोऽप्रलोके सुलभ हि दुःखम् ॥ नष्टे जने शोचति बन्धुवर्गः गते धने स्यात्कृपणो यथैव । तस्मात्पुरस्तादनुशोचनीय, पुनर्न तत्संसहतेऽभिमानः॥ प्रेम्णाऽवसाय पूर्वन्तु सहैव दुष्टमृत्युना । ग्रासीकृतौ ततोऽस्माकं वियोगोऽजनि देवतः ॥ १६७२॥ एतैश्चित्रैश्च भूयोऽस्मत्संयोगोऽजायत प्रियः । पलाय्य नावमारुह्य तीच वेगवर्ती नदीम ॥१६७३ ।। स्तेनहस्तगतो तेन मृत्युवक्त्रस्थितावपि । तद्गुहातश्च निष्कास्य चौरेणैकेन रक्षितौ ॥ १६७४ ॥ वनं भ्रान्त्वा ततः कश्चिद्-प्रामो लब्धः सुदैवतः। कुल्माषहस्तिनाऽस्माकं योगोऽकसादजायत ॥१६७५ ।। यदि मनसि समीहा हातुमादातुमिष्टं, सुविहितयतनानां दैवमेकं सहायम् । For Private And Personlige Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy