________________
ShriMahavir Jain ArachanaKendra
Achanach
sagan Gyaan
भीतरंगवती
कया ॥ ६२॥
XXXXXXXXXXXXXXXXXXXXXX
अस्मार्मिरतो दृष्टाः पवित्राः सुमनोहराः । पुनर्विलोकितः शाखा-मण्डितो वटपादपः
॥१६.२॥ तदान्तिकत्वमापन्नरस्मामिहरितैदलैः । विशालः श्यामलो भूमेर्वक्षोज इत्यतय॑त
॥१६०३।। सार्थस्य पथिकानां च विश्रमस्थानमछुतम् । मार्गालङ्कारमृतोऽभू-च्छायामण्डलशोभितः
॥ १६०४॥ कौशाम्बीसीमवेशस्य परां शोभा विवर्द्धयन् । स्तम्बेषु विटपानां च पक्षिस_विराजितः सुरभिपुष्पजालानां कलिका रम्यकान्तयः । मनोहरा मनो नृणां हरन्तिस्म सकौतुकम् ऊर्ध्वदेशे शरन्मेष इव श्वेतपटावलिः । व्यराजत्तदधो नीरपूरिता मृदघटा अपि
॥ १६.७॥ मित्रसम्बन्धिवगैव तद्देशं समुपागतः । वयं व॰पिता भूयोऽनेकाऽऽशीर्वादपूर्वकम्
॥१६०८॥ मुखेन कमलं या चलझपो कचानां चयै भ्रमभ्रमरभारकं शिरसि वारिपूर्ण घटम्
॥१६०९॥ इयं यूवतिमण्डली सुधकन वहन्ती सती, पुरो भवति यस्य तस्य पूर्ण हि सर्वेऽप्सितम्
॥१६१०॥ ऋषभदेवजिनेश्वरमन्दिर, विविधपुष्पलतोपवनं वरम् । विकचकञ्जसुशोभिसरोवरं परिसरेऽस्ति मनोहरमङ्गलम् ॥१६११ ॥ अकस्मात्यसंशोभी, राजहस्ती समाययौ । गर्जनमन्दगर्जाभिः स्वागतमनुमोदयन्
॥१६१२॥ इंसानां कूजनं वापी-तीरसामीप्यसेविनाम् । सर्वमङ्गलमेवाऽऽसी-दधिदुर्वाऽवताऽदिमिः
प्रतिसुरवरगेहं कांस्यपण्टानिनाद-स्तदनु सविधिपूजापद्धत्तिगौरषेण । कचिदपि नृपमान्या एत्य नो मानयन्तः, स्वजनपरिवृतानां सर्वमस्माकमिष्टम्
॥१६१४॥
XEXXEBOXEEEEEERRORITERA
।॥
२
॥
For Private And Personlige Only