SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रममिलितसुविद्या कष्टलब्धाकला च, बलविभवविभूतिप्राप्तराज्याऽधिकाराः। इति गुणिगुणसङ्घो नो यथार्थोऽस्ति तावन्, नहि भवति च यावत्स्वाभिलाषस्य पूर्चिः कृता तपस्या गुरवश्च लब्धा मन्त्रोऽप्यवाप्तो विहिवाथ सिद्धिः । स्वसाज्जगत् कित्वफलं समस्तं न चेत्कृतोदुःखविमुक्त्युपायः उभाभ्यां श्रेष्ठवर्याभ्यां लिखिते निजपाणितः । पत्रे च प्रहिते स्वं हि गृहाण पुरुषोतम ! " इति तस्य वचः श्रुत्वा मद्भर्ता नतमस्तकः । सन्देशपत्रिके लात्वा स्वमित्रं स व्यजिज्ञपत् " सा श्रमव्यपनोदाय, शीतच्छायतरोस्तले । उपविष्टाऽस्ति चिन्तार्ता मोदयैतेन तां द्रुतम् " वाचयित्वा शनैः पत्र गोप्यगोपनकाम्यया । स्पष्टं ततोऽपठत्तार-स्वरेण मत्पतिर्मुदा तेनाहमपि तद्वृत्तं ज्ञातवत्यखिलं स्फुटम् । विनाक्रोधेन पत्रे ते लिखितेऽमवतां ध्रुवम् प्रेमभावः स्फुटस्तत्र दर्शितोऽभूत्पुनः पुनः । " गृहमागम्यतां शीघ्र-मि " त्योत्सुक्यश्च दर्शितम् तेन मे सकला चिन्ता विनष्टा सहसाऽन्तरात् । महानन्दमयं जातं मनो दुःख विनिर्गमात् रमापहस्तिना पश्चाद्भर्तुर्हस्तौ विलोकतौ । आस्तां घर्षणया पूर्णां यौ रज्वा दृढबन्धनात् रूपान्तरं समापन संजातशोकविकृती । मल्लयुद्धसमभ्यासात्परां पुष्टि गताविव For Private And Personal Use Only ॥। १५१९ ॥ ॥ १५२० ॥ ॥ १५२१ ॥ ।। १५२२ ।। ॥ १५२३ ॥ ॥ १५२४ ॥ ।। १५२५ ।। ॥ १५२६ ।। ॥ १५२७ ॥ ।। १५२८ ।। ।। १५२९ ॥ Acharya Shri Kasagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy