________________
श्रीतरंगवती
॥१५०८॥ ॥ १५०९॥ ॥१५१०॥
॥५८॥
॥ १५११॥
समस्तवत्सपुर्यान्तु सर्वत्र जनतामुखात् । वृतान्तमेतद्विख्यातं त्वदीयपूर्वजन्मनः नगरप्रेष्ठिनः पुत्री श्रेष्टिपुत्रश्च स्वां कथाम् । प्राग्भवीयां स्मृति लब्ध्वाजानीता प्रेमपूरिताम् वार्ताऽपि कौतुकयुक्ता सलिले तैलबिन्दुवत् । सद्यः प्रसरति मायां लोकाल्लोकं समन्ततः
" वार्ता च कौतुकवती, विमला च विद्या, लोकोत्तरः परिमलश्च कुरङ्गनामेः । तैलस्प बिन्दुरिव वारिणि दुर्निवार-मेतत् त्रयं प्रसरति स्वयमेव भूमौ आश्चर्यकारककथा, कमलाकलंका, विद्याऽनवद्यजनमानस वासिता च ।
कस्तूरिका परिमलो विमल: कदाचित्तिष्ठेचतुष्टयमिदं भुवि गोपितं नो उभाभ्यां अष्ठिभार्याभ्यां युष्मदन्येपणाय वै । परितोऽनेकपुरुषाः प्रहिताः सन्ति साम्प्रतम् प्रेषितोऽहमपि क्षिप्रं प्रणाशकपुरं प्रति । युष्मदन्वेषणायैव शीघ्रं वार्तापलब्धये यतो मज्जनकस्यास्ति वसतियात्मसिद्धये । वृत्तान्तं युवयोस्तत्र किञ्चिन्नैवोपलब्धवान् तथाऽपि ध्यातवांस्तत्र स्वकीयमानसे ततः । “ विनष्टसंपदो ये स्यु-र्ये च कष्टवशं गताः सापराधाश्च ये लोका ये च शिक्षितकार्मणाः । ते भ्रमन्ति वनस्थल्या निजकार्यचिकीर्षया ततोऽहं तादृशस्थानं पर्यटन दृष्टिपूर्वकम् । अत्राऽऽगतोऽस्मि देवेन श्रमो मे सफजीकृतः
॥१५१२॥ ॥१५१३॥ ॥ १५१४ ॥ ॥१५१५॥
FEEXXXXXXXXXXXXXXXXXXXXX
॥ १५१७॥ ॥१५१८॥
For Private And Personale Only