________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चिरपरिचितमिष्टं प्राप्तमेकान्तमित्रं, हृदयमिदमवश्यं प्रेक्षणे सोत्सुकं स्यात् । तदनुविहितगाढाऽऽलिङ्गनं तत्प्रवृत्ति - श्रवणविधिसमुत्कं जायते स स्वभावात्
॥ १४९६ ॥ " कुतस्त्वममागतोऽस्यत्र ! पिताऽस्याः कुशली किमु ? । पितरौ बन्धवो मेऽपि सुहृदः सुखिनः किमु १ । १४९७ ॥ मत्स्वामिनः समीपे स क्षितौ नत्वा स्थितस्ततः । स्वसव्य करतस्तस्य गृहीत्वा वाममत्रवीत्
“ नगरश्रेष्ठिना कल्ये ज्ञातं “ पुत्री न वर्तते " कथां सारसिकाऽवोचत्ततो वां पूर्वजन्मनः " सज्जीभूय कथं नष्टौ युवामित्यादिमूलतः । प्रोक्तं तया च स श्रेष्ठी श्रुत्वा त्वत्चातमत्रवीत् " श्रेष्ठिन् " किञ्चिन् मया क्रौर्यं कृतं तत्क्षन्तुमर्हसि । तयोः पूर्वतनं रूढं स्नेहबन्धमजानता " तज् ज्ञानस्य माहात्म्यं यद्विज्ञः कुरुते शुभम् । अज्ञः करोति तु फले- सन्देह एव केवलम् जामातुर्मार्गणं तूर्णं कारय श्रेष्ठिपुङ्गव १ । आगच्छतु सुखेनैष मत्तो नास्ति भयं क्वचित् स युवा दैन्यमापन्नः परदेशनिवासिनाम् । व्यवहारा न जानानः कां दशामाप्तवान्भवेत् १ ततस्त्वज्जनकस्याग्रे युवयोः पूर्वजन्मनः । वृत्तान्तं कथयामास साद्यन्तं सकलं क्रमात् जननी पुत्रवात्सल्यात् त्वद्वियोगभृशार्दिता । दुःखोदधौ निमशाsभू-न्मुक्तकंठं रुरोद च समीपस्थजनाः सर्वे तद्दुःखेनाऽतिदुखिताः । रुरुदुर्भृशमुद्विग्ना - श्चिन्ताक्लान्तहृदम्बुजाः
For Private And Personal Use Only
॥। १४९८ ॥ ॥। १४९९ ॥
।। १५०० ।। ।। १५०१ ।।
।। १५०२ ॥
॥ १५०३ ॥ ॥। १६०४ ॥
।। १६०५ ।।
।। १५०६ ।।
॥। १५०७ ॥
Acharya Shri Kailasagarsun Gyanmander