SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 38885 www.kobatirth.org " नेत्रैरिवोत्पलैः पत्रैर्मुखैरिव सरः श्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ग्राम्यलोकमनोऽमिष्टे सुरभीकृतदिदमुखे । पङ्कज श्रेणिभिः पूर्णे तस्मिन्नासन जलेशयाः तस्मिन्नुत्तीर्यसौरभ्य - वासितं वस्त्रगालितम् । शीतलं मधुरं चेतो नयनानन्दकारक निर्मलं वारि पीत्वा च प्रीतिरासादितोत्तमा । ततो गाघोदकं गत्वा शीतलं सलिलं मुखे संसिन्य चिन्तया मुक्तौ परमं मोदमाप्नुव । ग्रामं यान्तौ मुखे तस्य वृहद्वारिघटान्विताः प्रमदाः सुन्दराकारा अपश्याव सुलोचनाः । कटीस्थापितमृत्कुम्भाः सकङ्कणकराम्बुजैः कुम्भकण्ठान्समावेश्य व्रजन्त्यो रेजिरे भृशम् । व्यतर्कयद्विलोक्येदं मत्प्रियो जात कौतुकः " एतैः कुम्भैरहो ! पुण्यं विहितं किं सुलोचने । यतस्ते युवती पार्श्वे संस्थिताः पुरुषा इव एवासां सुन्दरैस्तैर्गाढमालिङ्गिताः शुभा ? " । वनितास्तु तदा सर्वा निर्निमेषं सकौतुकाः आवामेव व्यलोकन्त-गतिरोधेन वर्त्मनि । तङ्ग्रामं परितो ह्यासी- द्विषमाऽपि सुशोभिता वृतिः प्रादारिकीपक्ति - रिवाऽदृश्यन्त सा स्फुटा । यतः पयोधराकार तुम्बकानि समन्ततः तस्यां स्थितान्यलम्बन्तविपुला कृतिभाञ्जि वै । यत्र ग्राम्यस्त्रियोऽपश्यन्नावां दुर्भाग्यतो वृतिः प्रागेव तत्र भग्नाssसीत् तेनाऽभूत्सुखवीक्षणम् । मिथः प्राप्ता इव स्पर्द्धा दृष्टुमावां समुत्सुकाः For Private And Personal Use Only ।। १४४६ ॥ ॥। १४४७ ॥ ॥। १४४८ ॥ ।। १४४९ ।। ॥ १४५० ॥ ॥ १४५१ ॥ ॥ १४५२ ॥ ।। १४५३ ।। ।। १४५४ ॥ ।। १४५५ ।। ॥ १४५६ ॥ ।। १४५७ ।। ।। १४५८ ।। Acharya Shri Kassagarsun Gyanmandir
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy