SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भीतरंगवती कथा XXXXXXXXXXXXXXXXXXXXXXXX विलोक्य मे महानन्दः समभन्मानसे तदा । पाणिगृहीतशाखाग्राः पुष्पगुच्छाऽवतंसिताः ॥१४३३॥ चित्रगीतानि गायन्तो गोपबालाश्च वीक्षिताः । पप्रच्छरुत्सुकास्तेऽपि श्रान्तौ दीर्घाऽध्वनेव भोः! ॥१४३४॥ कुतः समागतावत्र ? मत्स्वामी प्रोक्तबाँस्ततः । मार्गभ्रष्टा वयं जाताः किनामा विषयोऽस्त्ययम् ॥१४३५॥ किं नाम नगरं चेदं ? भवतां नगरं च किम् । दूरं युष्मत् पुरश्चेतः कियदस्ति महाशयाः! ॥१४३६ ॥ "ग्रामो नः क्षायका (खायग) ख्योऽस्ति वनस्याऽन्तोत्रविद्यते । किंचिदतोऽधिकं नैव जानीमो वनचारिणः ॥ १४३७ ॥ गच्छताऽनेन मार्गेण समीपे वर्तते पुरम् "। किञ्चदये गती यावत्तदाऽऽसा कर्षिताधरा ॥१४३८॥ तां दष्ट्वा मत्प्रियोऽबादी-ब्धस्वास्थ्यः प्रमोदभार । " इतो युवतयो ग्रामा-द्विनिर्गत्य च भूरुहाम् ॥१४३९ ॥ विचेतुं फलपर्णानि व्रजन्ति वनमुत्सुकाः । श्वेतकाच्याः प्रिये तासामधस्ताद्वर्तुलाः शुभा ॥ १४४०॥ पुष्टाः पूर्वानुगा जया राजन्ते लोहितप्रभाः । चित्राचारक्षमौत्सुक्यशोभना नेत्ररोचनाः ॥१४४१॥ प्रयाणजं क्लेशदं च दूरीकर्तु मम श्रमम् । इत्थं स्निग्धवचो मझ्या स्वामी मामुदलासयत् ॥१४४२॥ अथ ग्रामैकदेशे च नातिदूरं स्थितं सरः। प्राप्तं श्रान्तजनोत्साह-वर्द्धकं निमलोदकम् ॥१४४३॥ हंसकारण्डवाकीर्ण सरोजवनसुन्दरम् । स्फाटिकाऽऽभ जलव्याप्तसोपानसुभगसरः ॥१४४४॥ प्रतिविम्बितनीलामनभोमण्डलमुज्ज्वलम् । अम्बरं वा सरो वाऽस्ति जनानां तर्कणास्थलम् ॥१५४५॥ ॥५५॥ For Private And Persone Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy