SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ www.kobahirihora तरंगपती ॥१०३२॥ XXXXXSXSXXXXSSEXESEX बतो वीरजना विद्धाः कामबाणैनिरर्गलम् । तथाप्यसत्प्रचारामो दूषयन्ति निजं कुलम् वरं दौस्थ्यं लोके वरमपि च मानस्य विलयः । वरं ग्रामे ग्रामे पथि पथि च निन्दा शतमुखी वरं देवत्यागो बरमपि वियोगः स्वमुहृदां, । कुकृत्यैः प्राणानामवनमपि पुंसामनुचितम् कुलीनाः स्वकुलाचारं सत्यवत्मेनि संस्थिताः । पालयन्ति महाऽऽपद्भिः पीडिता अपि सर्वदा इत्थं सख्या बदन्त्यां मे पाचन्धुर्विभावसुः । न्यमज्जत्सरितां पत्यो न ज्ञातं तदिदं मया ततः शीघ्रतरं स्नानं विधाय शुद्धिहेतवे । सख्या साकं मया भुक्तं किश्चित्पक्कासमस्पृहम् ततः सख्या तया सार्द्ध चन्द्रशाला मनोरमाम् । समारुह्योपविष्टाऽहं रम्यमालम्ब्य विष्टरम ततो मुदा मया वार्ता मद्भर्तर्विहिता चिरम् । कालो यथा यथाजगच्छ-तथाऽशान्तिरवर्द्धत असह्या साऽभवत्पीडा मनोवल्लिविशोषिणी । संपत्ती विद्यमानायामपि निःस्वसभाऽभवम् स्नेहप्रायल्यतो भूरि-पीडया व्यथिता सखीम् । जीवनं रक्षितुं नम्रा प्रावोचं वचनं पदः समुदानां समुल्लास कुर्वश्चन्द्रो यथा यथा । नमोङ्गणं समायाति तथोत्कण्ठा विवर्द्धते पवनस्य बलेनेव कुशाग्रस्थगितोदकम् । मदुत्कण्ठावलेनैषा नश्यति मिष्टवाश्वत मन्मानसानिरानन्दात्सखि ! त्वं शरणं मम । किं करोमि १ क गच्छामि ? दुःखस्यान्तः कथं मम ! मदीयं मानसं तस्य पृष्ठे भ्राम्यति सस्पृहम् । इदानीमेव सान्निध्यं तस्य प्रापय मां स्वसः ! ॥१०३४॥ ॥१०३५॥ ॥१.३६ ॥ ॥१.३७॥ ॥ १०३८॥ ॥१.३९॥ ॥१०४०॥ ॥१०४१॥ ॥१०४२ ॥ ॥१.४३॥ ३९॥ For Private And Personale Only
SR No.008672
Book TitleTarangwati Katha
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy