________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
॥१.१८॥
BEEXXXXXXXXXXXXXXXXXXXXXXX
मुखं निधाय हस्तान्जे निनिमेषविलोचना । शून्यं निरीक्षणं चक्रे गृहकार्यपराङ्मुखी वयस्यामान्त्वयन माश्च समादरपुरःसरम् ! सखि ! त्वत्कामनासिद्धिश्चिरकालसमर्थिता अवश्यं भाविनी भद्रे ! नैव चिन्ताप्रयोजनम् । वृथा चिन्ताविधानेन किं फलं लभते ? नरः युवयोः स्नेहसम्बन्धः पत्रेण सुच्यते पुनः । तेनैव तव शोकाग्नि निर्वापय महामते ! वचोऽमृतेन ते मर्तुः शोकजन्तुर्लयं गतः। मुदं करिष्यति शान्ति-मचिगच जनिष्पति विषादो नैव कर्तव्यस्त्वया घेतोविदाहकः । अचिरेण निजस्वामि-संयोगस्ते भविष्यति मया सखीवचः श्रुत्वा प्रतिवाक्यं समीरितम् । जानेऽहं दरवासेन मन्दस्नेहो भवेत्सखि ! अतोऽस्माकं बत स्नेह-संगतिरायतौ स्थिरा । न भविष्यति मन्येऽहं सर्व-कालविनिर्मितम् कताञ्जलिः पुनः शान्त्यै प्रत्यवोचत्सखी मम | भद्रे ! त्वं निश्चितं विद्धि यथार्थ कथयाम्पहम् वीराः साधयितुं साध्यं निजं यत्न प्रकुर्वते । व्यवस्थाच यथाकालं वितन्वन्त्यप्रमादतः साधनानाममावे हि योग्यानां वीरपुरुषाः । जघन्यमार्गमाश्रित्य न कुर्वन्ति मनीषितम् येन केनाप्युपायेन कार्यसिद्धिर्न शोभना । सहसा कार्यनिर्मातुः कटुकं जायते फलम् अविचार्यकृतं कर्म परिणामेऽसुखपदम् । योग्यसाधनसत्त्वे हि कार्यसिद्धिः प्रजायते साधने सति योग्येऽपि यदि कार्य निजेप्सितम्। न सिद्धयति तदा पुसां नैव दोषोऽभिधीयते
॥१०२०॥ ॥१०२१ ॥ ॥१०२२॥ ॥१.२३॥ ॥१०२४॥ ॥१०२५॥ ॥१.२६॥ ॥ १०२७॥ ॥ १०२८॥ ॥१०२९॥ ॥१.३०॥
For Private And Personlige Only