________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वारंभपरित्यागी, भवेत्साधुरहिंसकः अतोगृहस्थतोत्यागी, ह्यनन्तगुणशुद्धिकृत् ॥८॥ द्रव्यभावदयावन्तः साधवो धर्मदेशकाः शीघ्रमुक्तिपदयान्ति, विश्वयाप्रवर्धकाः ॥३॥ कोटिकोटिमहोपाय, धर्मिजीवस्यरक्षणम् हिंसकेभ्यः प्रकर्तव्यं, सात्त्विकन्यायकर्मभिः ॥८॥ अन्यायएवहिंसाऽस्ति, न्याय एव दयाशुभा; कापट्थमेव हिंसाऽस्ति, निर्दभश्च दयास्मृता ॥८॥ हिंसायां पापमन्तार, श्चार्या हिंसानिषेधकाः अनार्याविपरीतास्यु, हिंसाऽऽचारविचारिणः ॥८६॥ मांसरक्तादिभोक्तारः पश्वादिघातिनोजनाः अनीत्या जनहन्तारो, राक्षसा जनरूपिणः ॥८॥ जनादीनां विनाशेन, जीवनंचवहन्ति ये: चण्डालास्तेचविज्ञेया,-जनघातेनजीविनः ॥८॥ क्रूरहिंसकपापानां, संगोऽपिपापहेतवे; हिंसकाश्चक्रवांद्या, मृत्वा श्वभ्रंप्रयान्तिते ॥८९॥ गालिदानेऽपिहिंसाऽस्ति, निन्दा हिंसास्वरूपिणी. अभ्याख्यानंच हिंसाऽस्ति, हिंसा:पैशुन्यवृत्तयः ॥१०॥ हिंसा विश्वासघातोऽस्ति, कूटसाक्षिप्ररूपणम् कूटलेखोऽपिहिसैव, हिंसा मिथ्याप्रभाषणम् ॥९१॥ हिंसा चुराऽपि बोडव्या, परन्यासापहारणम् मित्रद्रोहश्चहिंसैव, मिथ्यात्वबुद्धिवासना ॥१२॥ अधर्म्यकामतोहिंसा, जायते निश्चयो महान् भावहिंसा प्रयोडव्या, मोहस्य सर्ववासना ॥१३॥
For Private And Personal Use Only