________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
قی
भावहिंसापरित्यागाद्, द्रव्यहिंसा निवर्तते; अनुपयोगतो हिंसा, चाहिंसा स्वोपयोगतः ॥१४॥ दयातोयतनावृत्ति, दयाचारश्चजायते; दर्शनज्ञानचारित्रै, रहिंसा द्रव्यभावतः ॥९५।। देशखण्डसमाजेषु, दयाकार्यप्रवृत्तयः कर्तव्याःसज्जनः श्रेष्ठाः सम्यगदयाविचारतः ॥९॥ आर्या अहिंसयाख्याता, अनार्या हिंसयातथा आर्यधर्मो दयापूर्णः आदेशो दयामयः ॥९॥ किंराज्यः किंधनौगः किंपुत्रैश्च दयांविना मोक्षद्वारं दया ख्याता, शुद्धाऽऽत्मोन्नतिकारिणी ॥९८॥ गुणस्थानक्रमारोहे,-दया साधनमुत्तमम् मनोवाकाययोगेन,-दयांकुरुष्व चेतन !! ॥९९॥ दयातःस्वाऽविकारेण, योग्यकर्म समाचर; धारय यतनां सर्व, कार्येषु स्वोपयोगतः ॥१०॥ हिंसापापनिवृत्यर्थ, दयाधर्मसमाचर हिंसा नश्यतिसत्प्रीत्या, पुण्यात्पापविनश्यति ॥ १०१॥ दया पुण्यायविज्ञेया, पापायजीवहिंसनम् .. आत्मवत्सर्वजीवाना, महिंसां त्वं समाचर. ॥१०२॥ स्वाङ्गनाशेयथादुःख,-मन्याऽङ्गनाशनेतथा स्वमृत्यौचयथादुःख,मन्यमृत्यौ तथा भवेत् ॥१०३॥ नाऽस्तिमृत्युसमाभीतिः, क्षुत्समा नाऽस्ति वेदना; स्वाऽऽत्मवत्सर्वजीवेषु, ज्ञात्वा दयां समाचर ॥१०४॥ दयांविना न देवत्वं, प्राप्यतेकोटियुक्तिभिः देवाभूता भविष्यन्ति, भवन्ति सद्दयाबलात् ॥१०॥
For Private And Personal Use Only