________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૭૫
Acharya Shri Kailassagarsuri Gyanmandir
प्रमत्तयोगतःप्राण-, नाशाहिंसा प्रजायते हिंसायाः परिणामेन, स्याहिंसाकर्मबन्धनम् ॥७०॥ अहिंसापरिणामेन, भवेदाऽऽत्माह्यहिंसकः हिंसाबुद्धिविनाधर्म - कार्येण शुद्धिराऽऽत्मनः ॥ ७१ ॥ अल्पदोषो महाधर्मो, बहव्यश्च निर्जरा यतः कर्तव्यं धर्मकार्यतद्, दयावद्भिर्विवेकिभिः ॥७२॥ अन्यायेन भवेहिंसा, न्यायेन सदया भवेत् ; दयाsस्तिब्रह्मचर्येण, हिंसाऽस्तिव्यभिचारतः ॥७३॥
दयायाश्चविचारेण, प्रवृत्त्या पुण्यबन्धनम् हिंसायाश्वविचारेण, प्रवृत्त्या पापबन्धनम् ॥७४॥
क्रियमाणेषुकार्येषु दयादृष्टिप्रधारिणः पापकर्म न बध्नन्ति, शुद्धोपयोगिदेहिनः ॥ ७५ ॥ मैत्रीभावेन जीवेषु दयाधर्मः प्रवर्धते प्रमोदभावयोगेन, स्वाऽन्यहिंसाप्रवर्जनम् ॥ ७६ ॥
माध्यस्थ्यभावयोगेन, द्रव्यतोभावतोदया: भवेन्निजाऽऽत्मनः शुद्धि, रहिंसा स्वाऽन्यदेहिनाम् ||७७ || निजाऽऽत्मनोभवेडिसा, रागद्वेषकषायतः
साम्येन स्वाऽन्यजीवाना, महिंसा जायते खलु ॥ ७८ ॥ अहिंसाजायतेशुद्ध, - प्रेम्णाच संयमेन वै
स्वाऽन्याऽऽत्मनां प्रशुङ्घर्थ, सामायिकंसमाचर ॥ ७९ ॥ देशविरतियोगेन, - देशहिंसा विनश्यति: सर्वविरतियोगेन, सर्वहिंसा विनश्यति ॥८०॥
आरम्भश्वसमारम्भो, द्रव्यहिंसादिवर्धकाः निरारंभतया हिंसा, नश्यति द्रव्यभावतः ॥ ८१ ॥
For Private And Personal Use Only