________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૮
Acharya Shri Kailassagarsuri Gyanmandir
दानशीलतपोभावैः सामर्थ्य योगवर्धनम् ; देवसद्गुरुपूजाऽऽयै, राऽऽत्मवीर्यप्रकाशते. ॥६७९ ॥ योगिनांकेवलज्ञानं, सामर्थ्ययोगतोभवेत् : सर्वकर्मक्षयोमोक्षो, जायते च सयोगिनाम्. ॥ ६८० ॥ आत्माऽसंख्यप्रदेशाना, मरूपिणांनखण्डनम् : छेदनंभेदनं नैव पृथक्त्वं न स्वभावतः ॥ ६८१ ॥ आत्माऽसंख्यप्रदेशास्ते; कर्मसम्बन्धयोगतः देहं प्रमाणसंकोचं, विकाशं चधरन्तिये ॥ ६८२ ॥ कर्मसम्बन्धमुक्तास्ते, निर्मलाएकरूपिणः न संकोचंविकासं ते, प्राप्नुवन्ति सदास्थिराः ॥ ६८३ ॥ प्रतिप्रदेशमा नन्त्यं, ज्ञानादीनामनादितः अनन्तागुणपर्याया, आत्मनि सन्ति सर्वदा ॥ ६८४ ॥ मनोवाक्कायगुप्त्यायत्, सामर्थ्य माssत्मनः स्फुटम् ; व्याप्रियते हि मुक्त्यर्थ, सामर्थ्ययोग इष्यते ॥ ६८५ ॥ सन्तियोगा असंख्याता, बाह्यान्तरप्रभेदतः एकैकयोगमाश्रित्य, अनन्ता मोक्षगाजनाः ||६८६ ॥ उपशमादिभावेन, स्वाऽऽत्मन आन्तराः खलु शुभशुद्धपरीणाम - योगा भवन्ति धर्मिणाम् ॥६८७॥ आत्मनः पूर्णशर्मार्थ, मसंख्ययोगहेतुता; ज्ञात्वाऽऽत्माऽऽनन्दलाभार्थ, निश्चयंकुरुभावतः ||६८८|| मुक्त्वाऽऽत्मानं त्रिलोकस्य, पदाधैर्न सुखं भवेत्; सुखाम्भोधिस्वयं ज्ञात्वा, स्वाऽऽत्मनि त्वं स्थिरो भवा६८९ भ्रामं भ्रामं भृशं भ्रान्त्वा, जगत्सर्व मनेकशः सुखार्थी न सुखं प्राप्त, आत्मनि शर्म शोधय ॥ ३९०॥
For Private And Personal Use Only