________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
५०
षट्चक्रेषुमनः स्थैर्य, कृत्वाब्रह्मविचारणा : कर्तव्यास्वोपयोगेन, सर्वशक्त्युद्भवस्ततः ॥६६७॥ ध्यानसमाधियोगाद्याः सन्ति मोक्षस्यहेतवः मोक्षसाधनतोभिन्नं, शुद्धाऽऽत्मानंविचारय ॥ ६६८ || चित्तस्यमोहवृत्तीनां निरोधोयोगउच्यते ; योगस्यलक्षणंयेतत् क्षायिकभावयौगिकम् ॥६६९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अप्रशस्यकषायाणां, निरोधोयोगउच्यते सम्यग्दृष्टिगुणस्थान, माssरभ्यवर्त्तते हृदि ॥६७० || शस्यकषाययुक्तानां, सेवाभक्त्याऽऽदिकर्मणाम् व्यापारः शुभयोगोऽस्ति; जायतेमुक्तिकाङ्क्षिणाम् ॥६७१॥ सर्वज्ञधर्मवाञ्छात, इच्छायोगः प्रवर्त्ततेः सदेवगुरुसेवार्थे, तीव्रेच्छा हृदिजायते ॥ ६७२॥
सर्वकर्मविमोक्षार्थ, मिच्छाऽपूर्वा हृदिस्फुटाः इच्छायोगोऽस्तिचाद्यः सो, मार्गानुसारिणांचयः ॥६७३ ॥ सर्वज्ञोक्ते महाश्रद्धा, शास्त्रयोगः स उच्यते; धर्मशास्त्रं समाश्रित्य सम्यग्दृष्टिः प्रवर्त्तते ॥ ६७४ ॥ सर्बज्ञवीरदेवोक्त-, धर्मशास्त्रावलम्बनम् ; स्याद्वाददृष्टिसापेक्ष-, शास्त्रयोगः प्रवर्तते ॥ ६७५॥
शास्त्रयोगबलेनैव, सामर्थ्ययोग आत्मनि उद्भवेद्धर्मकार्याणां, व्यापारेण व्रतैषिणाम् ॥६७६॥ देशविरतिमाऽऽरभ्य, सामर्थ्ययोगवर्त्तनम् ; क्षीणमोहगुणस्थानं, यावदस्तिसयोगिनाम् ||६७७ ||
श्रावकाणाञ्चसाधूनां व्रतादिधारणंशुभम्, षडाssवश्यककृत्याद्यैः सामर्थ्ययोग इष्टदः ॥ ६७८ ||
For Private And Personal Use Only