________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પ
निर्विकल्पदशाकाले, ब्रह्माऽऽनन्दः समुल्लसेत् ; ततः पश्चादुपादेयं, शुद्धब्रह्मैव केवलम् ||३५५॥ नाsन्यत् किञ्चिदुपादेयं भवेदाऽऽत्मापयोगिनाम् शुद्धोपयोगआदेयः स्वभावेन भवेत् स्वयम् || ६५६ ॥ शुभोपयोग एवास्ति, सविकल्पसमाधयः शुद्धोपयोग एवाsस्ति, निर्विकल्पसमाधयः ॥ ६५७ ॥ प्रशस्यरागयोगेन, सविकल्पत्वमिष्यते; रागद्वेषौ यत्रस्त, स्तद्ध्यानंनिर्विकल्पकम् ||६५८ || शस्यराग विकल्पाना, मुपयोगेऽस्तिसम्भवः शुभोपयोग इष्यः सः शुद्धोविकल्पमन्तरा ॥ ३५९ ॥ रागद्वेषादिसङ्कल्प-विकल्पानांसमुद्भवः
Acharya Shri Kailassagarsuri Gyanmandir
नाऽस्तियत्र सोजन्यः शुद्धोपयोगइष्टदः ॥६६० ॥ मनोवाक्कायगुप्त्याच, निर्विकल्पोपयोगतः प्रादुर्भवन्तिवेगेन, स्वाऽऽत्मनोलब्धि सिद्धयः ||६६१॥ प्रथमः सविकल्पोऽस्ति, स्वोपयोगः शुभङ्करः विकल्पध्यानतः पश्चा, निर्विकल्पंप्रकाशते ॥ ६६२॥ निर्विकल्पोपयोगेन, केवलज्ञानभास्करः प्रादुर्भवतिसःसत्य-लोका लाकप्रकाशकः ॥ ६६३।। आत्मधर्मपरीणामः शुभः शुद्धश्चहार्दिकः समाधिरेवबोद्धव्यः सम्यग्दृष्टिमनीषिभिः ॥ ६६४ ॥
मनोवाक्काययोगाना, माssरोग्यंचप्रवर्तनम् ; समितिगुप्तिसत्कर्म, समाधियोगउच्यते ॥ ६६५|| मनोवाक्काययोगानां धर्ममार्गप्रवर्तनम् ; बाह्य आभ्यन्तरोयोगो, द्रव्यतोभावतस्तथा ॥ ६६६ ॥
"
For Private And Personal Use Only