________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५
चित्तैकाऽऽयंयदाध्येये, परब्रह्मणि जायते तदाऽऽत्माऽऽनुभवःस्पष्टो, हृद्येवं वेदितो मया ॥६४३॥ दृष्टिंसंस्थाप्यनाभौये, हृत्पद्मेच स्थिराऽऽत्मना ध्यायन्ते ब्रह्मभूतास्ते, भवन्ति ब्रह्मदर्शनात् ॥६४४॥ साक्षात्कारः परायांस्या, नाभौत्राटकयोगतः आत्मपारं न संयाति, वैखरी शब्दशक्तितः ॥६४५॥ सर्ववाचो निवर्तन्ते, ब्रह्मणोऽनुभवे स्फुटम् ; अनुभवः परायांस्याद्, ब्रह्मलीनमहर्षिणाम् ॥६४६॥ आत्मोत्थितापराभाषा, स्वाऽऽत्मज्ञानाऽवगाहिनी सत्यप्रकाशतेब्रह्म, वैखर्या नैव वर्ण्यते ॥६४७॥ नाभौसंयमकर्तारो, ब्रह्मरूपं विजानते; हृदिसंयमकर्तारः पश्यन्तीपारगामिन; ॥६४८॥ कण्ठेसंयमकर्तारो, मध्यमापारगामिनः योगाऽनुभविनःसन्तो, भवन्तिब्रह्मरूपिणः ॥६४९॥ स्वाऽधिष्ठानेतथाऽऽधारे, चक्रेचमणिपूरके: चक्षुषो सिकाऽग्रेच, देयादृष्टिनिजाऽऽत्मनः ॥६५०॥ दृष्टिंधृत्वाभ्रुवोर्मध्ये, ब्रह्मज्योतिःप्रलोकनम्; त्राटकदृष्टितोध्येयं, ब्रह्मज्योतिःप्रकाशते ॥६५१॥ ब्रह्मरन्ध्रेमनोधृत्वा, तत्राऽऽत्मनः प्रधारणम्; कर्तव्यंसविकल्पेन, पश्चात्स्यानिर्विकल्पता ॥६५२॥ पिण्डस्थेनपदस्थेन, रूपस्थेननिजाऽऽत्मनः ध्यानेनसत्परंज्योति, ब्रह्मपश्यन्ति योगिनः ॥६५३॥ निर्विकल्पंपरब्रह्म, ब्रह्मरन्ध्र विचिन्तयेत् : अन्यन्न चिन्तयेत्किञ्चि, निर्विकल्पोभवेत्ततः॥५४॥
For Private And Personal Use Only