________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यसुखस्य कामाऽब्धेः पारं यातो न यास्यसिः इन्द्रादिकभवेष्वेव, भोगा भुक्ता अनन्तशः ॥६९१॥ ज्ञात्वैवं भ्रान्तिमुत्सृज्य, स्वाऽऽत्मनि सुखनिश्चयम् ; कुरु शुद्धोपयोगेन, बाह्येषु निःस्पृहो भव ॥६९२॥ यदा पूर्णः प्रजायेत, स्वाऽऽत्मनि सुखनिश्चयः तदासन्तोषवानाऽऽत्मा, भवत्येव महाप्रभुः ॥६९३॥ यावद्वा सुखाशाऽस्ति, तावद् दुःखं प्रजायते सन्तोषो न भवेत् पूर्णी, मनो भ्राम्यति भूतवत् ॥६९४॥ बाह्यसुखाय यत्प्रेम, तत्प्रेम दुःखदं भृशम् । सुखीभूतो न लोकेऽस्मिन् , कोऽपिसत्यं विचारय ॥६९५॥ शुद्धोपयोगतः प्रेम, सुखार्थ मुत्तरोत्तरम् । क्रमेणजायते शुद्ध, माऽऽत्मसिद्धिप्रदायकम् ॥६९६॥ जातेशुद्धोपयोगेहि, बाह्येषुकामवासना; नश्यति निश्चयं तस्य, यान्ति शुद्धोपयोगिनः ॥६९७॥ बाह्यभोगपराधीनो, जडमोही प्रजायते; भूत्वा दासस्यदासोऽसौ, मृत्वा याति च दुर्गतिम् ॥६९८॥ बाह्यभोगेषु निर्लेपः स्वाश्रयीच दमी शमा स्वतन्त्रोयोऽस्ति सन्तोषी, मृत्वा सो याति सद्गतिम् ६९९ निद्रा मिथ्यात्वबुद्धिर्या, स्वप्नो वैभाविकीदशा, अन्तराऽऽत्मदशा जाग्रद्, क्षयोपशम भावतः ॥७००॥ तुर्योज्जाग्रहशापूर्णा, केवलज्ञानरूपिणी आत्मज्ञानोद्भवाजाग्र,-दशा सम्यक्त्वसंजुषाम् ॥७०१॥ आत्मोपयोगिनो जाग्रद्,-दृशां यान्ति विवेकतः अतिजाग्रहशां प्राप्य, जीवन्मुक्ता भवन्ति ते ॥७०२॥
For Private And Personal Use Only